________________
२७६
ભારતીય અભિલેખવિદ્યા ८. न्यायाने[5]र्थस्य च कः समर्थः
स्यादर्जितस्याप्यथ रक्षणे च । गोपायितस्यायि [च] वृद्धिहेतौ वृद्धस्य पात्रप्रतिपादनाय ॥ [१०] सर्वेषु भृत्येष्वपि संहतेषु यो मे प्रशिष्यान्निखिलान्सुराष्ट्रान् । आं ज्ञातमेकः खलु पर्णादत्तो भारस्य तस्योद्वहने समर्थः ॥ [११] एवं विनिश्चित्य नृपाधिपेन . नैकानहोरात्रगणान्स्वमत्या । यः संनियुक्तो[s]र्थनया कथंचित् सम्यक्सुराष्ट्रावनिपालनाय ॥ [१२] नियुज्य देवा वरुणं प्रतीच्यां स्वस्था यथा नोन्मनसो बभूवु[:] [1] पूर्व तरस्यां दिशि पर्णदत्तं
नियुज्य राजा धृतिमांस्तथाभूत् ।[1] [१३] १०. तस्यात्मजो ह्यात्मजभावयुक्तो
द्विधेव चात्मात्मवशेन नीतः । सवत्मिनात्मेव च रक्षणीयो नित्यात्मवानात्मजकान्तरूपः ।[1] [१४] रूपानुरूपैर्ललितविचित्रैः नित्यप्रमोदान्वितसर्वभावः । प्रबुद्धपद्माकरपद्मवक्त्रो
नृणां शरण्यः शरणागतानाम् ।[1] [१५] ११. अभवद्भुवि चक्रपालितो[5]साविति नाम्ना प्रथितः प्रियो जनस्य।
स्वगुणैरनुपस्कृतैरुवात्ति]: पितरं यश्च विशेषयांचकार ।[1] [१६] क्षमा प्रभुत्वं विनयो नयश्च शौर्य विना शौर्यमह(हा)र्चनं च। दाक्ष्यं दमो दानमदीनता च दाक्षिण्य मानण्य न[शून्यता च [i] [१७]
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org