________________
૧૮
સમ્મતિતર્ક પ્રકરણ ભાગ-૨/ દ્વિતીય કાંડ | ગાથા-૪ हेतुभिरनन्तानन्तप्रदेशिकैः स्कन्धः, संस्थानैः परिमण्डलादिभिः, परिवारैः घनोदधिवलया-दिभिः 'जं समयं णो तं समयं' इति च 'कालाध्वनोरत्यन्तसंयोगे' [पा० २-३-५] इति द्वितीया अधिकरणसप्तमीबाधिका तेन यं समयं जानाति यदा जानातीत्यर्थः ‘णो तं समयं' पश्यतीति न तदा पश्यतीति भावः, विशेषोपयोगः सामान्योपयोगान्तरितः सामान्योपयोगश्च विशेषोपयोगान्तरितस्तत्स्वाभाव्यादिति प्रश्नार्थः, उत्तरं पुनः 'हंता गोयमा!' इत्यादिकं प्रश्नानुमोदकम् 'हंता' इत्यभिमतस्यामन्त्रणम् ‘गौतम' इति गोत्रामन्त्रणम् प्रश्नानुमोदनार्थं पुनस्तदेव सूत्रमुच्चारणीयम् हेतुप्रश्नस्य चात्र सूत्रे उत्तरम्-'साकारे से णाणे अणागारे दंसणे' [] साकारं विशेषावलम्बि, अस्यकेवलिनो, ज्ञानं भवति, अनाकारं अतिक्रान्तविशेष-सामान्यालम्बि दर्शनम्, न चानेकप्रत्ययोत्पत्तिरेकदा निरावरणस्यापि तत्स्वाभाव्यात् न हि चक्षुर्ज्ञानकाले श्रोत्रज्ञानोत्पत्तिरुपलभ्यते न चावृतत्वात् तदा तदनुत्पत्तिः स्वसमयेऽप्यनुत्पत्तिप्रसङ्गात् ततो युगपदनेकप्रत्ययानुत्पत्तौ स्वभाव एव कारणम् नावरणसद्भावः सन्निहितेऽपि च द्वयात्मके विषये विशेषांशमेव गृह्णन् केवली तत्रैव सामर्थ्यात् सर्वज्ञ इति व्यपदिश्यते सर्वविशेषज्ञत्वात् सर्वसामान्यदर्शित्वाच्च सर्वदर्शी, यच्चैवं व्याख्यायामकिञ्चिज्जत्वं केवलिनः होढदानं चेति दूषणम्, तन्नः यतो यदि तत् केवलं ज्ञानमेव भवेद् दर्शनमेव वा ततः स्यादकिञ्चिज्ज्ञता न चैवम्, आलदानमपि न संभवति 'यं समयं' इत्याधुक्तव्याख्यायाः सम्प्रदायाविच्छेदतोऽपव्याख्यानत्वायोगात् न च दुःसम्प्रदायोऽयम् तदन्यव्याख्यातृणामविसंवादात् 'जं समयं च णं समणे भगवं महावीरे' [] इत्यादावप्यागमे असकृदुच्चार्यमाणस्यास्य शब्दस्यैतदर्थत्वेन सिद्धत्वात् । ततो दुर्व्याख्यैषा-यैः समकं, यत्समकमिति भवतैव होढदानं कृतम् ।।
एते च व्याख्यातारः तीर्थकरासादनाया अभीरवः तीर्थकरमासादयन्तो न बिभ्यतीति यावत् सा च 'न किञ्चिज्जानाति तीर्थकृदित्यधिक्षेपः' 'अन्यथोक्ते तीर्थकृतैवमुक्तम्' इत्यालदानम् । तथाहि - यदि विषयः सामान्यविशेषात्मकस्तदा विषयि केवलं विशेषात्मकं वा भवेत् सामान्यात्मकं वा,यदि विशेषात्मकमिति पक्षस्तदा निःसामान्यविशेषग्राहित्वात् तेषां च तद्विकलानामभावात् निर्विषयतया तदवभासिनो ज्ञानस्याभाव इत्यकिञ्चिज्ज्ञः सर्वज्ञस्ततो भवेत्, अथ सामान्यात्मकम्, एवमपि विशेषविकलसामान्यरूपविषयाभावतो निर्विषयस्य दर्शनस्याप्यभावान्न किञ्चित् केवली पश्येत् । अथायुगपद् ज्ञानदर्शने तस्याभ्युपगम्येते तथापि यदा जानाति न तदा पश्यति, यदा च पश्यति न तदा जानातीत्येकरूपाभावे अन्यतरस्याप्यभावात् पूर्ववदकिञ्चिज्ज्ञोऽकिञ्चिद्दर्शी च स्यात्, उभयरूपे वा वस्तुन्यन्यतरस्यैव ग्राहकत्वात् केवलोपयोगो विपर्यस्तो वा भवेत् । तथाहि-यद् उभयरूपे वस्तुनि सामान्यस्यैव ग्राहकं तद्विपर्यस्तम् यथा सांख्यज्ञानम् तथा च सामान्यग्राहि केवलदर्शनमिति
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org