________________
७१
સમ્મતિતર્ક પ્રકરણ ભાગ-૧ | પ્રથમ કાંડ | ગાથા-૧૯ હોતે છતે=એકાંત દ્રવ્યાર્થિકનયથી આત્મા અપરિણત હોતે છતે અને એકાંત પર્યાયાર્થિકનયથી આત્મા ક્ષણસ્થિતિવાળો હોવાના કારણે ઉત્સન્ન હોતે છતે, બંધની સ્થિતિનું કારણ નથી=બંધની स्थितिनुं 52 5षाय नथी. ||१/१८।। टी :
कर्म-अदृष्टम, योगनिमित्तं मनोवाक्कायव्यापारनिमित्तम, बध्यते आदीयते, बध्यत इति बन्धः अदृष्टमेव, तस्य स्थितिः कालान्तरफलदातृत्वेन आत्मन्यवस्थानम्, सा कषायवशात् क्रोधादिसामर्थ्यात्, एतदुभयमपि एकान्तवाद्यभ्युपगते आत्मचैतन्यलक्षणे भावे अपरिणते उत्सने च बन्धस्थितिकारणं नास्ति, न ह्यपरिणामिनि अत्यन्ताऽनाधेयातिशये आत्मनि क्रोधादयः सम्भवन्ति, नाप्येकान्तोत्सन्ने अनुसन्धानविकले ‘अहमनेनाऽऽक्रुष्टः' इति द्वेषसम्भवः, तथा च ‘अन्य आक्रुष्टः, अन्यो रुष्टः', 'अन्यो व्यापृतः, अपरो बद्धः, अपरश्च मुक्तः' इति कुशलाकुशलकर्मगोचरप्रवृत्त्याद्यारम्भवैफल्यप्रसक्तिः, न चैकसन्ततिनिमित्तोऽयं व्यवहारः, क्षणिकैकान्तपक्षे सन्ततिकल्पनाबीजभूतोपादानोपादेयभावस्यैव अघटमानत्वात् न चेयमनुसन्धानप्रतिपत्तिर्मिथ्या, द्वेषगर्वशाठ्याऽसन्तोषादीनामन्योन्यविरुद्धस्वभावानां क्रमविवर्तिनां चिद्विवर्तानां स्वसंवेदनाध्यक्षसिद्धानाम् तथा तथाऽनुभवितुश्च संशयविपर्यासाऽदृढज्ञानागोचरीकृतस्यैकस्य चैतन्यस्यानुभवात् न च बाधारहितानुभवविषयस्यापह्नवः, सुखादेरप्यनुभवविषयस्यापह्नुतिप्रसङ्गात् तथा च प्रमाणप्रमेयादिव्यवहारोच्छेदप्रसक्तिः, यदपि –'मिथ्याऽध्यारोपहानार्थं यत्नोऽसत्यपि मोक्तरि' [ ] इत्युक्तम्, तदप्यनेनैव प्रतिविहितम् यथोक्तप्रतिपत्तेमिथ्यात्वासिद्धेः, न चानुमाननिश्चितेऽर्थे आरोपबुद्धरुत्पत्ति मनिश्चयावगतधूम-ध्वज इव, न च मिथ्याज्ञानस्य सहजत्वात् विपरीतार्थोपस्थापकानुमानप्रवृत्तावपि न निवृत्तिः, तथाभ्युपगमे बोधसन्तानवत् तस्य सर्वदाऽनिवृत्तिरित्यमुक्तिप्रसक्तिः, असहजं तु तत्त्वज्ञानप्रादुर्भावेऽवश्यं निवर्त्तते शुक्तिकावगमे रजतभ्रम इव, अनिवृत्तौ वा न प्रमाणमप्रमाणबाधकं भवेत् न च क्षणक्षयनिश्चये 'स एवाहम्' इति प्रत्ययो युक्तः, अपि तु ‘स इव' इति स्यात्, नहि गवयनिश्चये 'गौरेव' इति प्रत्ययो दृष्टः अपि तु 'गोरिव' इति, न च क्रमवतिष्वभिष्वङ्गद्वेषादिपर्यायेषु चैतन्यानुस्यूतिप्रत्ययस्य मानसत्वं, आत्मनि क्षणक्षयमनुमानाद् निश्चिन्वतोऽपि तदैव स्पष्टमनुभूयमानत्वाद्, विकल्पद्वयस्य युगपदुत्पत्तिः परैर्नेष्टेति विकल्परूपत्वे एकत्वप्रत्ययस्य क्षणिकत्वनिश्चयसमये सद्भावो न भवेत् इत्येकान्तनित्यानित्यव्युदासेनोभयपक्ष एव बन्धस्थितिकारणं युक्तिसङ्गतम् ।।१/१९।। टीक्षार्थ :
कर्म अदृष्टम् ..... युक्तिसङ्गतम् ।। ४=१६ष्ट, योगनिमित्त मनोवानिमित्त, बंधाय छे-अहए।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org