________________
૨૪૫
ख्यास्त्रिद्विषोडशनवभेदाः सम्यक्त्वमिथ्यात्वतदुभयानि कषायनेाकपायावनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसज्ज्वलनविकल्पाश्चैकशः क्रोधमानमायालोभहास्यरत्यरतिशोकभयजुगुप्सा स्त्रीपुंनपुंसकवेदाः ॥ १० ॥ नारकतैर्यग्योनमानुषदैवानि ॥ ११ ॥ गतिजातिशरीराङ्गोपाङ्ग निर्माणबन्धन मङ्घातसंस्थान संहनन स्पर्शर सगन्धवर्णानुपूर्व्य गुरुलघुपघातपघातातपाद्यते । च्छ्वासविहायागतयः प्रत्येक शरीर त्रस सुभगसुस्वर शुभसूक्ष्मपर्यातस्थिरादेययशांसि सेतराणि तीर्थकृत्त्वं च ॥ १२ ॥ उच्चैर्नीचैश्च ॥ १३ ॥ दानादीनाम् ॥ १४ ॥ आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकाटाकाट्यः परा स्थितिः ॥ १५ ॥ सप्ततिमहनीयस्य ॥ १६ ॥ नामगोत्रयोविंशतिः ॥ १७ ॥ त्रयस्त्रिंशत् सागरोपमाण्यायुष्कस्य ॥ १८ ॥ अपरा द्वादशमुहूर्ता वेदनीयस्य ॥ १९ ॥ नामगोत्रयोरष्टौ ॥ २० ॥ शेषाणामन्तर्मुहूर्तम् ॥ २१ ॥ विषानुभावः ॥ २२ ॥ स यथानाम ( यथेोक्तानाम् ) || २३ || ततश्च निर्जरा || २४ ॥ नामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्कक्षेत्रावगाढ स्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः ॥ २५ ॥ सद्वेद्यसम्यक्त्वहास्यरतिपुरुषवेद शुभायुर्नामगोत्राणि पुण्यम् ॥ २६ ॥ इत्यष्टमेाऽध्यायः ॥ ८ ॥ अध्याय ९ मो
।। ९ ।। आस्रवनिरोधः संवरः ॥ १ ॥ स गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रैः || २ || तपसा निर्जरा च ॥ ३ ॥ सम्यग्येोगनिग्रह। गुप्तिः ॥ ४॥
भाषणादाननिक्षेपेोत्सर्गाः समितयः || ५ || उत्तम क्षमामार्दवार्जवशौचसत्यसंयमतपस्त्यागाकिञ्चन्यब्रह्मचर्याणि धर्मः || ६ || अनित्याशरणसंसारैकत्वान्यत्वाशुचित्वासव संवरनिर्जराला कबोधिदुर्लभधर्मस्वाख्याततत्त्वानुचिन्तनमनुप्रेक्षाः ॥ ७ ॥ मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः || ८ || क्षुत्पिपासाशीतेोष्णदंशमशकना"ग्न्यार तिस्त्रीचर्यानिषद्याशय्याऽऽक्रोशवधयाचनाला भरोग तृणस्पर्श मलसत्कार पुरस्कारप्रज्ञज्ञानादर्शनानि || ९ || सूक्ष्मसम्परायच्छद्मस्थवीतरागयोश्चतुर्दश ।। १० एकादश जिने ॥। ११ ॥ बादरसम्पराये सर्वे ।। १२ ।। ज्ञानावरणे प्रज्ञाऽज्ञाने ।। १३ ।। दर्शन महान्तराययेोरदर्शनालाभौ ॥ १४ ॥ चारित्रमा हेनाग्न्यारतिस्त्रीनिषद्याऽऽक्रोशयाचनासत्कार पुरस्काराः ।। १५ ।। वेदनीये शेषा: ।। १६ ।। एकादयो भाज्या युगपदेकानविंशतेः ।। १७ ।। सामायिकच्छेदेापस्थाप्य परिहार विशुद्धिसूक्ष्मसम्पराययथाख्यातानि चारित्रम् || १८ || अनशनावमौदर्य वृत्तिपरिसङ्ख्यानरसपरित्यागविविक्तशय्यासनकायक्लेशा बाह्यं तपः ।। १९ ।। प्रायश्चित्तविनय वैयावृत्त्यस्वाध्यायव्युत्स
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org