________________
२४०
॥५॥ गति-कषाय-लिङ्ग-मिथ्यादर्शना-ऽज्ञाना-ऽसंयता-ऽसिद्धत्व-लेश्या-श्चतुचतु-स्त्र्ये-कै-कै-के क-षड्भेदाः ॥ ६ ॥ जीवभव्याभव्यत्वादीनि च ॥ ७ ॥ उपयोगी लक्षणम् ॥ ८ ॥ स द्विविधाऽष्टचतुर्भेदः ॥ ९ ॥ संसारिणो मुक्ताश्च ॥ १० ॥ समनस्कामनस्काः ॥ ११ ॥ संसारिणस्त्रसस्थावराः ॥ १२ ॥ पृथि व्यम्बुवनस्पतयः स्थावराः ॥ १३ ॥ तेजोवायू द्वीन्द्रियादयश्च त्रसाः ॥ १४ ॥ पञ्चेन्द्रियाणि ॥ १५ ॥ द्विविधानि ॥ १६ ॥ नित्युपकरणे द्रव्येन्द्रियम् ॥ १७ ॥ लब्ध्युपयोगौ भावेन्द्रियम् ॥ १८ ॥ उपयोगः स्पर्शादिषु ॥ १९ ॥ स्पर्शनरसनघ्राणचक्षुशश्रोत्राणि ॥ २० ॥ स्पर्शरसगन्धवर्णशब्दास्तेषामर्थाः ॥ २१ ॥ श्रुतमनिन्द्रियस्य ॥ २२ ॥ वाय्वन्तानामेकम् ॥ २३ ॥ कृमिपिपीलिकाभ्रमरमनुष्यादीनामेकैकवृद्धानि ॥ २४ ॥ सञ्जिनः समनस्काः ॥ २५ ॥ विग्रहगतौ कर्मयोगः ॥ २६ ॥ अनुश्रेणि गतिः ॥ २७ ॥ अविग्रहा जीवस्य ॥ २८ ॥ विग्रहवती च संसारिणः प्राक् चतुभ्यः ॥ २९ ॥ एकसमयोऽविग्रहः ॥ ३० ॥ एक द्वौ वाऽनाहारकः ॥ ३१ ॥ सम्मूर्च्छनग पपाता जन्म ॥ ३२ ॥ सचित्तशीतसंवृताः सेतरा मिश्राश्चैकशस्तद्योनयः ॥ ३३ ॥ जराबण्डपोतजानां गर्भः ॥ ३४ ॥ नारकदेवानामुपपातः ॥ ३५ ॥ शेषाणां सम्मूर्च्छनम् ॥ ३६ ॥ औदारिकवैक्रियाहारकतैजसकामणानि शरीराणि ॥ ३७॥ (तेषां) परं परं सूक्ष्मम् ॥ ३८ ॥ प्रदेशतोऽसङ्ख्येयगुणं प्राक् तैजसात् ॥ ३९ ॥ अनन्तगुणे परे ॥ ४० ॥ अप्रतिघाते ॥ ४१ ॥ अनादिसम्बन्धे च ॥ ४२ ॥ सर्वस्य ।। ४३ ॥ तदादीनि भाज्यानि युगपदेकस्याचतुर्थ्यः ॥ ४४ ॥ निरुपभोगमन्त्यम् ॥ ४५ ॥ गर्भसम्मूछैनजमाद्यम् ॥ ४६ ॥ वैक्रियमौपपातिकम् ॥ ४७ ॥ लब्धिप्रत्ययं च ॥ ४८ ॥ शुभं विशुद्धमव्याधाति चाहारक चतुर्दशपूर्वधरस्यैव ॥ ४९ ॥ नारकसम्मूछिनो नपुंसकानि ॥ ५० ॥ देवाः ॥ ५९ ॥ औषपातिकचरमदेहोत्तमपुरुषासङ्ख्येयवर्षायुषोऽनपवायुषः ।। ५२॥ इति द्वितीयोऽध्यायः ॥ २ ॥
अध्याय ३ जो ॥ ३ ॥ रत्नशर्करावालुकापङ्कधूमतमोमहातमः प्रभाभूमयो घनाम्बुवाताकाशप्रतिष्ठाः सप्ताधोऽधः पृथुतराः ।। १ ।। तासु नरकाः ।। २ ॥ नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः ।। ३ ।। परस्परोदीरितदुःखाः (श्च प्राक् चतुर्थ्याः) ।। ४ ॥ सङ्कक्लिष्टसुरादीरितदुःखाश्च प्राक् चतुर्थ्याः ।। ५ ।। तेष्वेक-त्रि-सप्त-दश-सप्तदश
Jain Educationa international
For Personal and Private Use Only
www.jainelibrary.org