________________
'श्री तत्त्वार्थाधिगम सूत्रम्'
अध्याय १ लो सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः ॥ १ ॥ तत्तर्थश्रद्धान सम्यग्दर्शनम् ॥ २ ॥ तन्निसर्गादधिगमाद् वा ॥ ३ ॥ जीवाजीवास्रवबन्धसंवरनिर्जरामाक्षास्तत्वम् ॥ ४ ॥ नामस्थापनाद्रव्यभावतस्तन्न्यासः ॥ ५ ॥ प्रमाणनयैरधिगमः ॥ ६ ॥ निदेशस्वामित्वसाधनाधिकरणस्थितिविधानतः ॥ ७ ॥ सत्सङ्ख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्वैश्च ॥ ८ ॥ मतिश्रुतावधिमनः पर्यायकेवलानि ज्ञानम् ॥ ९ ॥ तत् प्रमाणे ॥ १० ॥ आये परोक्षम् ॥ ११ ॥ प्रत्यक्षमन्यत् ॥ १२ ॥ मतिः स्मृतिः सज्ञाचिन्ताऽभिनिबोध इत्यनर्थान्तरम् ।। १३ ॥ तदिन्द्रियानिन्द्रियनिमित्तम् ॥ १४ ॥ अवग्रहहापायधारणाः ॥ १५ ॥ बहु-बहुविध-क्षिप्राऽनिश्रिताऽसन्दिग्ध (तानुक्त)-ध्रुवाणां सेतराणाम् ॥ १६ ॥ अर्थस्य ॥ १७ ॥ व्यञ्जनस्थावग्रहः ॥ १८ ॥ न चक्षुरनिन्द्रियाभ्याम् ॥ १९ ॥ श्रुतौं मतिपूर्व द्वयनेकद्वादशभेदम् ॥ २० ॥ द्विविधाऽवधिः ॥ २१ ॥ भवप्रत्ययो नारकदेवानाम् ॥ २२ ॥ यथोक्तनिमित्तः षड्विकल्पः शेषाणाम् ॥ २३ ॥ ऋजुविपुलमती मनःपर्यायः ॥ २४ ॥ विशुद्धयप्रतिपाताभ्यां तद्विशेषः ॥ २५ ॥ विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधि-मनपर्याययोः ॥ २६ ॥ मतिश्रुतयोनिबन्धः सर्वद्रव्येष्वसर्वपर्यायेषु ॥ २७ ॥ रूपिष्ववधेः ॥ २८ ॥ तदनन्तभागे मनःपर्यायस्य ॥ २९ ॥ सर्वद्रव्यपर्यायेपु केवलस्य ॥ ३० ॥ एकादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्थ्यः ॥ ३१ ॥ मतिश्रुतावधया विपर्ययश्च ॥ ३२ ॥ सदसतारविशेषाद् यदृच्छापलब्धेरुन्मत्तवत् ॥ ३३ ॥ नैगमसङ्ग्रहव्यवहारर्जुसूत्रशब्दा नयाः ॥ ३४ ॥ आद्य-शब्दौ द्वि-त्रिभेदौ ॥ ३५ ॥ इति प्रथमोऽध्यायः ॥ १ ॥
अध्याय २ जो ॥ २ ॥ औपशमिक क्षायिकौ भावौ मिश्रश्च जीवस्य स्वतत्वमौदयिक-पारिणामिकौ च ॥ १ ॥ द्वि-नवा-ऽष्टादशै-कविंशति-त्रिभेदा यथाक्रमम् ।। २ ।। सम्यक्त्वचारित्रे ॥ ३ ॥ ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च !! ४ ।। ज्ञानाज्ञानदर्सन-दानदिलब्धयश्चतुस्वित्रिपञ्चभेदाः (यथाक्रम) सम्यक्त्वचारित्रसंयमासंयमश्च
Jain Educationa international
For Personal and Private Use Only
www.jainelibrary.org