________________
૪ર
न चागमविधिः कश्चिन्नित्यः सर्वज्ञबोधकः । न च मंत्रार्थवादानां तात्पर्यमवकल्पते ॥ न चान्यार्थ प्रधानस्तैस्तदस्तित्वं विधीयते । न चानुवादितुं शक्यः पूर्वमन्यैरबोधितः ॥ अनादेरागमस्यार्थो न च सर्वज्ञ आदिमान् । कृत्रिमेण स्वसत्येन स कथं प्रतिपाद्यते ? ॥ अथ तद्वचनेनैव सर्वज्ञोऽन्यैः प्रतीयते । प्रकल्पयत् कथं सिद्धिरन्योन्याश्रययोस्तयोः ॥ सर्वज्ञोक्ततया वाक्यं सत्यं तेन तदस्तिता । कथं तदुभयं सिद्धयेत् सिद्धमूलान्तरादृते ॥
सर्वज्ञप्रणीतात्तु वचनान्मूलवर्जितात् । सर्वज्ञमवगच्छन्तः स्ववाक्यात् किन्न जानते | सर्वज्ञसदृशं कश्चियदि पश्येम संप्रति । उपमानेन सर्वज्ञं जानीयाम ततो वयम् ॥ उपदेशो हि युद्धादेर्धर्मोऽधर्मादिगोचरः । अन्यथा नोपपद्येत सार्वज्ञम् यदि नाभवत् ॥ बुद्धादयो वेदज्ञास्तेषां वेदादसम्भवः । उपदेशः कृतोऽतस्तैर्व्यामोहादेव केवलात् ॥ ये तु मन्वादयः सिद्धाः प्राधान्येन त्रयीविदाम् । त्रयीविदाश्रितग्रन्थास्ते वेदप्रभवोक्तयः ॥
तात्पर्य - प्रत्यक्ष, अनुभान, આગમ; ઉપમાન અને અર્થાત્ત વગેરે પ્રમાણ પચક્રથી સત્તુનું અસ્તિત્વ સિદ્ધ નથી થતું. પ્રત્યક્ષ । માત્ર નિકટની વસ્તુ જ ઓળખાવે छे. मनाहि, अनंत, अतीत, अनागत, वर्तमान, सूक्ष्माहि સ્વભાવવિશિષ્ટ નિખિલ પદાર્થો કઈ રીતે પ્રત્યક્ષ થઈ શકે ?
·
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org