________________
शानबिन्दुप्रकरणस्य [पृ०२९ पं०५ - अहणतो वि हु हिंसो दुहृत्तणओ मओ अभिमरो व्य । __ बाहिंतो न वि हिंसो सुद्धत्तणओ जहा विजो ॥ १७६४ ॥ न हि 'घातकः' इत्येतावता हिंस्रः । न चानन्नपि निश्चयनयमतेनाहिंस्रः। नापि 'विरलजीवम्' इत्येतावन्मात्रेणाहिंस्रः, न चापि 'जीवधनम्' इत्येतावता च हिंस्र इति । किं तर्हि, 'अभिमरो गजादिघातकः स इव दुष्टाध्यवसायोऽनन्नपि हिंस्रो मतः । बाधमानोऽपि च शुद्धपरिणामो न हिंस्रो यथा वैद्यः । इति नन्नप्यहिंस्रः, अनन्नपि च हिंस्र उक्तः ॥१७६३-१७६४ ॥ __ स इह कथं भूतो ग्राह्यः ? इत्याह -
पंचसमिओ तिगुत्तो नाणी अविहिंसओ न विवरीओ।
होउ व संपत्ती से मा वा जीवोवरोहेणं ॥ १७६५ ॥ पञ्चभिः समितिभिः समितः, तिसृभिर्गुप्तिभिश्च गुप्तो ज्ञानी जीवस्वरूप-तद्रक्षाक्रियाभिज्ञः सर्वथा जीवरक्षापरिणामपरिणतः तत्प्रयतश्च कथमपि हिंसन्नप्यविहिंसको मतः । एतद्विपरीवलक्षणस्तु नाहिंसकः, किन्तु हिंस्र एवायम्, अशुभपरिणामत्वात् बाह्मजीवहिंसायास्तु जीवोपरोधेन जीवस्य कीटादेरुपरोधेनोपघातेन संपत्तिर्भवतु, मा भूदू वा 'से' तस्य सावादे, ॥हिंसकत्वे तस्या अनैकान्तिकत्वादिति ॥ १७६५ ।। कुतः तस्या अनैकान्तिकत्वमित्याह -
असुभो जो परिणामो सा हिंसा सो उ बाहिरनिमित्तं ।
को वि अवेक्खेज न वा जम्हाऽणेगंतियं बझं ॥१७६६ ॥ यस्मादिह निश्वयनयतो योऽशुभपरिणामः स एव हिंसा इत्याख्यायते । स च बाथ• सत्त्वातिपातक्रियालक्षणं निमित्तं कोप्यपेक्षते कोपि पुनस्तन्निरपेक्षोऽपि भवेत्, यथा तन्दुलमत्स्यादीनाम् , तस्मादनैकान्तिकमेव बाह्यनिमित्तम् , तत्सद्भावेप्यहिंसकत्वात् , सदभावेऽपि च हिंसकत्वात् इति ॥ १७६६ ॥
नन्वेवं बाह्यो जीवघातः किं सर्वथैव हिंसा न भवति । उच्यते कश्चिद् भवति, कश्चित्तु न । कथम् ? इत्याह -
असुमपरिणामहेऊ जीवाबाहो त्ति तो मयं हिंसा ।
जस्स उ न सो निमित्तं संतो वि न तस्स सा हिंसा ॥ १७६७ ॥ ततः- तस्मात् यो जीवाबाधोऽशुभपरिणामस्य हेतुः अथवा अशुभपरिणामो हेतुः कारणं यस्यासावशुभपरिणामहेतुर्जीवाबाधः जीवघातः स हिंसा इति मतं तीर्थकरगणधराणाम् । यस्य तु जीवाबाधस्य सोऽशुभपरिणामो न निमित्तं स जीवाबाध: सन्नपि तस्य साधोर्न • हिंसेति ॥ १७६७ ॥ अमुमेवार्थ दृष्टान्तेन द्रढयन्नाह -
सद्दादओ रइफला न वीयमोहस्स भावसुद्धीओ। जह, तह जीवाबाहो न सुद्धमणसो वि हिंसाए ॥ १७६८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org