________________
पृ०२९ पं० ५.] टिप्पणानि । __ यथेह वीतरागद्वेषमोहस्य भगवतः इष्टाः शब्दरूपादयो भावविशुद्धितो न कदाचिद् रतिफला रतिजनकाः संपद्यन्ते यथा वेह शुद्धात्मनो रूपवत्यामपि मातरि न विषयामिलाप: संजायते, तथा शुद्धपरिणामस्य यत्नवतः साधोः सस्वोपघातोऽपि न हिंसाय संपद्यते ततोऽशुभपरिणामजनकत्वे बाचं निमित्तमनैकान्तिकमेवेति ॥ १७६८॥" विशेषा०
"हिंसामि मुसं भासे हरामि परदारमाविसामि त्ति । चिंतेज कोइ नय चिंतियाण कोवाइसंभूई ॥ ३२५९ ॥ तहवि य धम्माधम्मोदयाइ संकप्पओ तहेहावि ।
वीयकसाए सवओऽधम्मो धम्मो य संथुणओ ॥ ३२६० ॥ 'हिनस्मि हरिणादीन्' 'मृषां भाषेऽहम्' तद्भाषणाञ्च वञ्चयामि देवदत्तादीन् , 'धनमपहरामि' 'तेषामेव परदारानाविशामि-निषेवेऽहम्' इत्यादि कश्चित् चिंतयेत् । न च तेषां चिन्तितानां ॥ हिंसादिचिन्ताविषयभूतानां हरिणादीनां तत्कालं कोपादिसंमूतिः-कोपादिसंभवोऽस्ति । तथापि हिंसादिचिन्तकस्याधर्मः, दयादिसंकल्पतस्तु तद्वतो धर्मो भवति, इत्यावयोरविगानेन प्रसिद्धमेव । तथेहापि प्रस्तुते वीतकषायानप्यहत्सिद्धादीन् शपमानस्याधर्मः, संस्तुवतस्तु धर्म इति किं नेष्यते ? ॥" विशेषा•
"आया चेव अहिंसा आया हिंस त्ति निच्छओ एस ।
जो होह अप्पमत्तो अहिंसओ, हिंसओ इयरो ॥३५३६ ॥ इहात्मा मनःप्रभृतिना करणेन हननघातनाऽनुमतिलक्षणां हिंसां तन्निवृत्तिरूपामहिंसा करोतीति व्यवहारः, अस्यां च गाथायां निश्चयनयमतेन आत्मैव हननादिलक्षणा हिंसा स एव च तभिवृत्तिरूपाऽहिंसेत्युक्तम् । तदनेनात्मनः करणस्य योगलक्षणस्य कर्मणश्चैकत्वमुक्तं भवतीति ।" विशेषा० । ओघनि० गा० ७५४ ।
"यत एव कर्मक्षयात् कर्मप्रकृतीनां विशिष्टतरोऽकरणनियमः क्षपकश्रेण्यामुपपन्नोऽतएव तज्जन्यगर्हितप्रवृत्तेरपि तत एव तथाऽकरणनियमाद् वीतरागः क्षीणमोहादिगुणस्थानवर्ती मुनिः नैव किश्चित् करोति गर्हणीयं जीवहिंसादि, देशोनपूर्वकोटिकालं जीवनपि, गईणीयव्यापारबीजभूतकर्मक्षये गर्हणीयप्रवृत्तेरयोगात् ।” उपदेशरहस्य गा० ११४।।
"ननु यदि सदा गर्हणीपाऽप्रवृत्तिर्वीतरागस्याऽभ्युपगता तदा तस्य गमनागमनशब्दादिव्यापारो न युक्तस्तस्यां ततोऽन्योन्यपुद्गलप्रेरकत्वेनापि परप्राणव्यपरोपणानुकूलत्वेन हिंसान्तर्भूततया गर्हणीयत्वात् , हिंसादयो दोषा एव हि गईणीया लोकानामित्याशय समाधत्ते
ण य तस्स गरहणिजो चेट्टारंभोत्थि जोगमित्तेणं ।
जं अप्पमत्ताईणं सजोगिचरमाण णो हिंसा ॥११५॥ न तस्य वीतरागस्य, चेष्टारंभो गमनागमनशब्दादिव्यापारः गर्हणीयोऽस्ति, यद् यस्माद् , योगमात्रेण रागद्वेषासहचरितेन केवलयोगेन, अप्रमत्तादीनां सयोगिचरमाणां जीवानाम् , नो नैव, हिंसा, तेषां योगस्य कदाचित् प्राण्युपमर्दोपहितत्वेपि तत्वतो हिंसारूपस्वाभावात् तस्वतो हिंसाया एव गर्हणीयत्वादिति भावः, व्यक्तीभविष्यति चेदमुपरिष्टात् ।" - उपदेशरास्य गा० ११५।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org