________________
झानविन्दुप्रकरणस्य [पृ०२९०४दानप्रशंसायां प्राणवधः, तनिषेधे च वृत्तिप्रतिषेधः, एतेनेदं सूत्रकृतांगसूत्र लक्ष्यते -
"जे उ दाणं पसंसंति वहमिच्छन्ति पाणिणं ।
जे अण्णं पडिसेहति वित्तिच्छेयं कुणन्ति ते ॥" [सूत्रकृ० १.११.२०] पत्र पदार्थ एषः यदेतो द्वौ दानप्रशंसानिषेधौ महापापावशुभगतिलाभान्तरायाविप्रबलपाप। प्रकृतिबन्धहेतुत्वादिति ॥ १६८ ॥
वकत्थो पुण एवं विच्छेओ होज देसणाईणं ।
एवं विसेसविसयं जुजइ भणिअंतु वोत्तुं जे ॥ १६९ ॥ वाक्यार्थः पुनरेवमभ्युपगम्यमाने देशनादीनां पात्रापात्राविविषयदानविधिनिषेधादिदेशनादीनां विच्छेदः स्यात्
"धर्मस्यादिपदं दानं दानं दारिद्यनाशनम् । जनप्रियकरं दानं दानं सर्वार्थसाधनम् ॥ बीजं यथोपरे क्षिप्तं न फलाय प्रकल्प्यते ।
तथाऽपात्रेषु यद्दानं निष्फलं तद्विदुर्बुधाः ॥" इत्यादिदेशनाप्रवृत्तौ जीवहिंसानुमतिलाभान्तरायप्रसङ्गस्य वत्रलेपायमानत्वात् । तस्मात् ॥ एतगणितं तु विशेषविषयं वक्तुं युज्यते, जे इति पादपूरणार्थो निपातः ॥ १६९ ॥
आगमविहिअणिसिद्धे अहिगिच पसंसणे णिसेहे ।
लेसेण वि णो दोसो एस महावकगम्मत्थो ॥ १७ ॥ आगमे सिद्धान्ते विहितं निषिद्धं च दानमधिकृत्य प्रशंसने निषेधे च लेशेनापि नो दोषः । सत्प्रवृत्तिरूपस्य विहितदानव्यापारस्य हिंसारूपस्वाभावेन तत्प्रशंसने हिंसानुमोदनसा" प्रसङ्गात् । प्रत्युत सुकृतानुमोदनस्यैव सम्भवात् , निषिद्धदानव्यापारस्य च असत्प्रवृत्तिरूपस निषेधे वृत्तिच्छेदपरिणामाभावेनान्तरायानर्जनात् । प्रत्युत परहितार्थप्रवृत्त्यान्तरायकर्मविच्छेव एव । तदिदमुक्तमुपदेशपदे
__"आगमविहि तंते पडिसिद्धं चाहिगिच णो दोसो चि"- [गा. ८०९] आगमविहितं संस्तरणे सुपात्रे शुद्धभक्तादिदानम् । असंस्तरणे त्वशुद्धभक्तादिदानमपि " सनिषिद्धं च कुपात्रदानादिकमनुकम्पादानं तु कापि न निषिद्धं यवाह
"मोक्खत्थं जं दाणं तं पद एसो विही समक्खाओ।
अणुकम्पादाणं पुण जिणेहिं न कयावि पडिसिद्धं ॥" एष महावाक्यगम्योर्थः ॥ १७० ॥
अइदंपजत्थो पुण मोक्खंग होइ आगमावाहा ।
एवं पइसुत्तं चिय वक्खाणं पायसो जुत्तं ॥ १७१ ॥ ऐदम्पयर्थः पुनर्मोक्षाङ्गं भवति, आगमाबाधा आगमार्थानुलानम् । अतिदेशमाहएवमुपदर्शितप्रकारेण प्रतिसूत्रं यावन्ति सूत्राण्यङ्गीकृत्य प्रायशो व्याख्यानं युक्तं अतिसंक्षिप्तकचिश्रोत्राथपेक्षया प्रायश इत्युक्तम् ।। ५७१ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org