________________
७६
ज्ञानबिन्दुप्रकरणस्य [पृ०२९ ५०४ . इति वाक्यार्थप्रतीतिः प्रादुर्भवति । ततः प्रतिविशिष्टाकारावलोकनेन 'आम्र एवायम्' इति महावाक्यार्थधीः स्यात् । ततः पुरःसरम् 'आम्रार्थिना प्रवर्तितव्यम्' इत्यैदम्पर्यायधीरिति । नह्येवं प्रकारं विना निराकांक्षप्रतीतिः सिद्ध्येत् पदार्थमात्रज्ञानात् पदार्थस्मारितविशेषार्थजिज्ञासारूपाया आकांक्षाया अनुच्छेदात् वाक्यार्थस्यापर्यवसितत्वात् ॥ १५८ ॥ । आगमेपि तामाह
हंतव्वा नो भूआ सव्वे इह पायडो चिय पयत्थो ।
मणमाईहिं पीडं सव्वेसिं चेव ण करिजा ॥ १५९ ॥ 'सर्वाणि भूतानि न हंतव्यानि' इह प्रकट एव पदार्थः । मनआदिभिर्मनोवाशायैः पीडां बाधा सर्वेषामेव समस्तानामपि जीवानां न कुर्यात्, न विदध्यादिति ॥ १५९ ॥
आवन्नमकरणिजं एवं चेइहरलोचकरणाई।।
इय वकत्थो अ महावकत्थो पुण इमो एत्थ ॥१६॥ एवं सति चैत्यगृहलोचकरणादिकमकरणीयं साधुश्राद्धानां अकर्तव्यमापन्नम्, तत्रापि परपीडानुगमात् इत्येष वाक्यार्थश्चालनागम्यः । महावाक्यार्थः पुनरत्रायम् ॥ १६॥
_अविहिकरणंमि दोसो तो विहिणा चेव होई जइअव्वं ।
__ अइदंपजत्थो पुण आणा धम्मम्मि सारो ति ॥ १६१ ॥ अविधिफरणेऽनीतिविधाने चैत्यगृहलोचादेः, दोषो हिंसापत्तिः विधिकरणनान्तरीयकासत्प्रवृत्तिनिवृत्तिपरिणामजनितस्याहिंसानुबन्धस्य प्रच्यवात् । तत् तस्मात् विधिनैव यतिवव्यं भवति चैत्यगृहलोचाद्यर्थे । तदिदमुक्तम् -
"अविहिकरणंमि आणाविराहणा दुइमेव एएसि ।
ता विहिणा जइअव्वं ति"-[ उपदेशपद गा० ८६.] चैत्यगृहकरणविधिश्च
"जिनभवनकरणविधिः शुद्धा भृमिर्दलं च काष्ठादि ।
भृतकानतिसन्धानं खाशयवृद्धिः समासेन ।" इत्यादिप्रन्थोक्तः । लोचकर्मविधिस्तु
"धुवलोओ अ जिणाणं वासावासेसु होइ थेराणं ।
तरुणाणं चउमासे वुड्डाण होइ छम्मासे ॥" इत्याधुक्तः । ऐदम्पर्यार्थः पुनः 'आशा धर्मे सारः' इति । तामन्तरेण धर्मबुखापि तस्म निरवचत्वाभिमतस्यापि कार्यस्य निष्फलत्वादिति ॥ १६१ ॥ वाक्यान्तरमधिकृत्याह
गंथं चएम एत्थ वि सचेअणाचेअणं चए बत्छु ।
एस पयत्थो पयडो वक्कत्थो पुण इमो होइ ॥ १६२ ॥ 'प्रन्थं त्यजेत्' इत्यत्रापि सचेतनमचेतनं च वस्तु त्यजेन्न गृहीयात् इति एष प्रकट पदार्थः । बाक्यार्थः पुनरयं च वक्ष्यमाणलक्षणो भवति ॥ १६२ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org