________________
पृ०२९५०४.]
टिप्पणानि । तत्र पदार्थो यथाश्रुतार्थः पद्यते गम्यतेऽर्थः सामान्यरूपोऽचालिताप्रत्यवस्थापितो येनेति व्युत्पत्तेः । तदाह
"अत्थपदेण हु जम्हा एत्थ पर्य होइ सिद्धति ॥" [ उपदेशपद गा० ८८३] वाक्यार्थः-चालनावाक्यार्थः । महावाक्यार्थश्च प्रत्यवस्थापनार्थ(नात्म०)वाक्यार्थः । ऐदम्पर्यार्थश्च तात्पर्यार्थः इति ॥ १५५॥ इत्थमर्थचातुर्विध्यमन्येषामपि सम्मतमित्याह
अण्णेहि वि पडिवग्नं एअं सत्तुग्गहाउ नट्ठस्स ।
भट्ठस्स य मग्गाओ मग्गनाणस्स णाएणं ॥ १५६ ॥ अन्यैरपि एतत्पूर्वोक्तं प्रतिपन्नम् अङ्गीकृतम् । कथमित्याह – शत्रुग्रहान्नष्टस्य पाटलिपुत्रादौ प्रस्थितवतः पुरुषस्य कांचिद्विषमां भुवं प्राप्तस्य शत्रावुपस्थिते ग्रहीष्यत्ययमिति भयात् पलायि-॥ तस्य ततो मार्गाद्धष्टस्य मार्गज्ञानस्य मार्गावबोधस्य ज्ञातेन दृष्टान्तेन । तस्य हि मार्गजिज्ञासार्थ दूरे पुरुषमात्रमज्ञातविशेषं दृष्ट्वा सहसा तत्समीपगमनं न संभवति, कदाचित् शत्रुरपि भवेदयमिति संदेहात् । नापि तस्य परिव्राजकादिवेशधारिणोऽपि समीपे पथपृच्छार्थ गमनं युक्तम् , शत्रोरपि पथिकविश्वासनार्थ तथाविधवेशप्रतिपत्तेः संभाव्यमानत्वात् । बालवृद्धादिभ्यः सत्यवादितयाऽनुमतेभ्यः पृच्छायोग्यं पुरुषं तु ज्ञात्वाऽनुकूले मनःपवनशकुनादिना निरुप-10 प्रवमार्गपरिज्ञानार्थ तत्समीपगमनं युज्यते । एवं हि अत्र पुरुषमात्रदर्शनतुल्यः पदार्थः, शत्रुवेशभेददर्शनतुल्यो वाक्यार्थः, बालादिभ्यः प्रामाणिकपुरुषावगमनतुल्यो महावाक्यार्थी, ऐदम्पर्यार्थस्तु शुद्धोऽधिकारी प्रष्टव्य इति द्रष्टव्यम् ॥ १५६ ॥ पदार्थादीनामेव सम्भूय कार्यकारित्वं व्यवस्थापयति -
एत्थ पयत्थाईणं मिहो अवेक्खा हु पुण्णभावंगं ।
लोअम्मि आगमे वा जह वक्कत्थे पयत्थाणं ॥ १५७ ॥ अत्र पदार्थादिषु अर्थभेदेषु, पदार्थादीनां मिथः परस्परमपेक्षा क्रमिकोत्पादरूपा पूर्णभाषाङ्गं एकोपयोगाश्रययावत्पर्यायसिद्धिनिबन्धनम् , लोके आगमे वा यथा वाक्यार्थे पदार्थानाम् । अथ वाक्यार्थप्रतीतो पदार्थप्रतीतीनां हेतुत्वात् तत्र तदपेक्षा युज्यते । प्रकृते तु पदार्थादीनामैदम्पर्यार्थपर्यवसन्नत्वेन कार्यान्तराभावात् क मिथोऽपेक्षास्त्विति चेत् । न ।। यावत्पदार्थप्रतीतीनामेव वाक्यार्थप्रतीतित्वेन तेषां परस्परमपेक्षावत्पदार्थादीनां परस्परमपेक्षोपपत्तेः, सापेक्षपदार्थाविसमुदायात्मकोपयोग एव तदावरणक्षयोपशमहेतुत्वात् ॥१५७॥ तत्र लोक एव तावत् पदार्थादीनां मिथोऽपेक्षां व्युत्पादयति--
पुरओ चिदुइ रुक्खो इय वक्काओ पयत्थबुद्धीए ।
ईहावायपओयणबुद्धीओ हुंति इयराओ ॥ १५८ ॥ 'पुरतस्तिष्ठति वृक्षः' इति बाक्यात् पदार्थबुद्ध्या मदभिमुखदेशस्थित्याश्रयो वृक्ष इत्याकारया ईहापायप्रयोजनविषया इतरा वाक्यार्थमहावाक्याथै दम्पर्यार्थधीरूपा बुद्धयो भवन्ति । तथाहि 'अग्रे वृक्षस्तिष्ठति' इति प्रतीत्यनन्तरं 'वृक्षो भवनयं किं आम्रो वा स्यानिम्बो वा'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org