SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३०४ ગ્રન્થ યુગલ चिरं सुषुप्तास्तमसि मूढात्मानः कुयोनिषु । अनात्मीयात्मभूतेषु ममामिति जाग्रति ॥ ५६ ॥ पश्येन्निरन्तरं देहमात्मनोऽनात्मचेतसा । अपरात्मधियाऽन्येषामात्मतत्त्वे व्यवस्थितः ।। ५७ ।। अज्ञापितं न जानन्ति यथा मां ज्ञापितं तथा । मूढात्मानस्ततस्तेषां वृथा मे ज्ञापन श्रमः ॥ ५८ ॥ यद्बोधयितुमिच्छामि तन्नाहं यदहं पुनः । ग्राह्यं तदपि नान्यस्य तत्किमन्यस्य बोधये ।। ५९ ।। बहिस्तुष्यति मूढात्मा तुष्यत्यन्तः प्रबुद्धात्मा पिहितज्योतिरन्तरे । वहिर्व्यावृत्तकौतुकः ||६|| ||६०॥ न जानन्ति शरीराणि सुखदुःखान्यबुद्धयः । निग्रहानुग्रहद्धियं तथाऽप्यत्रैव कुर्वते ॥ ६१ ॥ स्वबुद्ध्या यावद्गृह्णीयात् कायवाक्चेतसां त्रयम् । संसारस्तावदेतेषां भेदाभ्यासे तु निर्वृतिः ॥ ६२ ॥ घने वस्त्रे यथाssत्मानं न घनं मन्यते तथा । घने स्वदेहेऽप्यात्मानं न घनं मन्यते बुधः ||६३ || जीर्णे वस्त्रे यथाssत्मानं न जीणं मन्यते तथा । जीर्णे स्वदेहेऽप्यात्मानं न जीणं मन्यते बुधः || ६४ || नष्टे वस्त्रे यथात्मानं न नष्टं मन्यते तथा । नष्टे स्वदेहेऽप्यात्मानं न नष्टं मन्यते बुधः ||६५ || रक्ते वस्त्रे यथाऽऽत्मानं न रक्तं मन्यते तथा । रक्ते स्वदेहेऽप्यात्मानं न रक्तं मन्यते बुधः ||६६ || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005240
Book TitleGranthyugal
Original Sutra AuthorN/A
AuthorBramhachari
PublisherShrimad Rajchandra Ashram
Publication Year1987
Total Pages372
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy