________________
પરિશિષ્ટ-૧
303
जाननप्यात्मनस्तत्त्वं विविक्तं भावयन्नपि । पूर्वविभ्रमसंस्काराद् भ्रान्ति भूयोऽपि गच्छति ॥४५॥ अचेतनमिदं दृश्यमदृश्यं चेतनं ततः । क्व रुष्यामि क्व तुष्यामि मध्यस्थोऽहं भवाम्यतः ।।४६॥ त्यागादाने बहिर्मुढः करोत्यध्यात्ममात्मविद् । नान्तर्बहिरुपादानं न त्यागो निष्ठितात्मनः ॥४७॥ युञ्जीत मनसाऽऽत्मानं वाक्कायाभ्यां वियोजयेत् । मनसा व्यवहारं तु त्यजेद्वाक्काययोजितम् ॥४८॥ जगद्देहात्मदृष्टीनां विश्वास्यं रम्यमेव वा । आत्मन्येवात्मदृष्टीनां क्व विश्वासः क्व वा रतिः ॥४९।। आत्मज्ञानात्परं कार्य न बुद्धौ धारयेच्चिरम् । कुर्यादर्थवशाकिञ्चिद् वाक्कायाभ्यामतत्परः ॥५०।। यत्पश्यामीन्द्रियैस्तन्मे नास्ति यनियतेन्द्रियः । अन्तः पश्यामि सानन्दं तदस्तु ज्योतिरुत्तमम् ॥५१॥ सुखमारब्धयोगस्य बहिर्दुःखमथात्मनि । बहिरेवासुखं सौख्यमध्यात्म भावितात्मनः ॥५२।। तद्व्यात्तत्परान्पृच्छेत्तदिच्छेत्तत्परो भवेत् । येनाविद्यामयं रूपं त्यक्त्वा विद्यामयं व्रजेत् ॥५३॥ शरीरे वाचि चात्मानं संधत्ते वाक्शरीरयोः । भ्रान्तोऽभ्रान्तः पुनस्तत्त्वं पृथगेषां विबुध्यते ॥५४।। न तदस्तीन्द्रियार्थेषु यत् क्षेमङ्करमात्मनः । तथाऽपि रमते बालस्तत्रैवाज्ञानभावनात् ॥५॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org