SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ 302 ગ્રન્થ-યુગલ आत्मदेहान्तरज्ञानजनितालादनिर्वृतः । तपसा दुष्कृतं घोरं भुजानोऽपि न खिद्यते ॥३४।। रागद्वेषादिकल्लोलैरलोलं यन्मनोजलम् । स पश्यत्यात्मनस्तत्त्वं तत्तत्त्वं नेतरो जनः ॥३५॥ अविक्षिप्तं मनस्तत्त्वं विक्षिप्तं भ्रान्तिरात्मनः । धारयेत्तदविक्षिप्तं विक्षिप्तं नाश्रयेत्ततः ॥३६॥ अविद्याभ्याससंस्कारैरवशं क्षिप्यते मनः । तदेव ज्ञानसंस्कारैः स्वतस्तत्त्वेऽवतिष्ठते ॥३७॥ अपमानादयस्तस्य विक्षेपो. यस्य चेतसः । नापमानादयस्तस्य न क्षेपो यस्य चेतसः ॥३८।। यदा मोहात्प्रजायते रागद्वेषौ तपस्विनः । तदैव भावयेत्स्वस्थमात्मानं शाम्यतः क्षणात् ॥३६।। यत्र काये मुनेः प्रेम ततः प्रच्याव्य देहिनम् । बुद्ध्या तदुत्तमे कार्य योजयेत्प्रेम नश्यति ॥४०॥ आत्मविभ्रमजं दुःखमात्मज्ञानात्प्रशाम्यति । नायतास्तत्र निर्वान्ति कृत्वाऽपि परमं तपः ॥४१।। शुभं शरीरं दिव्यांश्च विषयानभिवाञ्च्छति । उत्पन्नात्ममतिदेहे तत्त्वज्ञानी ततश्च्युतिम् ॥४२॥ परत्राहंमतिः स्वस्माच्च्युतो बध्नात्यसंशयम् । स्वस्मिन्नहमतिश्च्युत्वा परस्मान्मुच्यते बुधः ।।४३॥ दृश्यमानमिदं मूढस्त्रिलिङ्गमवबुध्यते । इदमित्यवबुद्धस्तु निष्पन्नं शब्दवर्जितम् ॥४४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005240
Book TitleGranthyugal
Original Sutra AuthorN/A
AuthorBramhachari
PublisherShrimad Rajchandra Ashram
Publication Year1987
Total Pages372
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy