SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट - १ येनात्मनाऽनुभूयेऽहमात्मनैवात्मनात्मनि । सोऽहं न तन्न सा नासौ नैको न द्वो न वा बहुः ||२३|| यदभावे सुषुप्तोऽहं यद्भावे व्युत्थितः पुनः । अतीन्द्रियमनिर्देश्यं तत्स्वसंवेद्यमस्म्यहम् ||२४|| क्षीयन्तेऽत्रैव रागाद्यास्तत्त्वतो मां प्रपश्यतः । बोधात्मानं ततः कश्चिन मे शत्रुर्न च प्रियः ||२५|| मामपश्यन्नयं लोको न मे शत्रुर्न च प्रियः । मां प्रपश्यन्नयं लोको न मे शत्रुर्न च प्रियः ||२६|| 3०१ त्यक्त्वैवं बहिरात्मानमन्तरात्मव्यवस्थितः । भावयेत्परमात्मानं सर्वसङ्कल्पवर्जितम् ||२७|| सोऽहमित्यात्तसंस्कारस्तस्मिन् भावनया पुनः । तत्रैव दृढसंस्काराल्लभते ह्यात्मनि स्थितिम् ॥२८॥ मूढात्मा यत्र विश्वस्तस्ततो नान्यद्भयास्पदम् । यतो भीतस्ततो नान्यदभयस्थानमात्मनः ||२९ ॥ सर्वेन्द्रियाणि संयम्य स्तिमितेनान्तरात्मना । यत्क्षणं पश्यतो भाति तत्तत्त्वं परमात्मनः ||३०|| यः परात्मा स एवाहं योऽहं स परमस्ततः । अहमेव मयोपास्यो नान्यः कश्चिदिति स्थितिः ||३१|| प्रच्याव्य विषयेभ्योऽहं मां मयैव मयि स्थितम् । बोधात्मानं प्रपन्नोऽस्मि परमानन्दनिर्वृतम् ||३२|| यो न वेत्ति परं देहादेवमात्मानमव्ययम् । लभते न स निर्वाणं तप्त्वाऽपि परमं तपः ||३३|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005240
Book TitleGranthyugal
Original Sutra AuthorN/A
AuthorBramhachari
PublisherShrimad Rajchandra Ashram
Publication Year1987
Total Pages372
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy