SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ 3०० ગ્રન્થયુગલ अविद्यासंज्ञितस्तस्मात्संस्कारो जायते दृढः । येन लोकोऽङ्गमेव स्वं पुनरप्यभिमन्यते ॥१२॥ देहे स्वबुद्धिरात्मानं युनक्त्येतेन निश्चयात् । स्वात्मन्येवात्मधीस्तस्माद्वियोजयति देहिनम् ॥१३॥ देहेष्वात्मधिया जाताः पुत्रभार्यादिकल्पनाः । सम्पत्तिमात्मनस्ताभिर्मन्यते हा हतं जगत् ॥१४॥ मूलं संसारदुःखस्य देह एवात्मधीस्ततः । त्यक्त्वैनां प्रविशेदन्तर्बहिरव्यापृतेन्द्रियः ॥१५॥ मत्तश्च्युत्वेन्द्रियद्वारैः पतितो विषयेष्वहम् । ताप्रपद्याहमिति मां पुरा वेद न तत्त्वतः ॥१६॥ एवं त्यक्त्वा बहिर्वाचं त्यजेदन्तरशेषतः । एष योगः समासेन प्रदीपः परमात्मनः ॥१७॥ यन्मया दृश्यते रूपं तन्न जानाति सर्वथा । जानन्न दृश्यते रूपं ततः केन ब्रवीम्यहम् ॥१८॥ यत्परैः प्रतिपाद्योऽहं यत्परान् प्रतिपादये । उन्मत्तचेष्टितं तन्मे यदहं निर्विकल्पकः ॥१९॥ यदग्राह्यं न गृह्णाति गृहीतं नापि मुञ्चति । जानाति सर्वथा सर्व तत्स्वसंवेद्यमस्म्यहम् ॥२०॥ उत्पन्नपुरुषभ्रान्तेः स्थाणौ यद्वद्विचेष्टितम् । तद्वन्मे चेष्टितं पूर्व देहादिष्वात्मविभ्रमात् ॥२१।। यथाऽसौ चेष्टते स्थाणी निवृत्ते पुरुषाग्रहे । तथा चेष्टोऽस्मि देहादी विनिवृत्तात्मविभ्रमः ॥२२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005240
Book TitleGranthyugal
Original Sutra AuthorN/A
AuthorBramhachari
PublisherShrimad Rajchandra Ashram
Publication Year1987
Total Pages372
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy