________________
પરિશિષ્ટ-૧
૨૯૮
(उपेन्द्रवज्रा) श्रुतेन लिङ्गेन यथात्मशक्ति
समाहितान्तःकरणेन सम्यक् । समीक्ष्य कैवल्यसुखस्पृहाणां
विविक्तमात्मानमथाभिधास्ये ॥३॥
___ (अनुष्टुप) बहिरन्तः परश्चेति त्रिधाऽऽत्मा सर्वदेहिषु । उपेयात्तत्र परमं मध्योपायाद् बहिस्त्यजेत् ॥४॥ बहिरात्मा शरीरादी जातात्मभ्रान्तिरान्तरः । चित्तदोषात्मविभ्रान्तिः परमात्माऽतिनिर्मलः ॥५॥ निमलः केवल: शुद्धो विविक्तः प्रभुरव्ययः । परमेष्ठी परात्मेति परमात्मेश्वरो जिनः ॥६॥ बहिरात्मेन्द्रियद्वारैरात्मज्ञानपराङ्मुखः । स्फुरितश्चात्मनो देहमात्मत्वेनाध्यवस्यति ॥७॥ नरदेहस्थमात्मानमविद्वान् मन्यते नरम् । तिर्यञ्च तिर्यगङ्गस्थं सुराङ्गस्थं सुरं तथा ॥८॥ नारकं नारकाङ्गस्थं न स्वयं तत्त्वतस्तथा । अनन्तानन्तधीशक्तिः स्वसंवेद्योऽचलस्थितिः ॥६॥ स्वदेहसदृशं दृष्ट्वा परदेहमचेतनम् । परात्माधिष्ठितं मूढः परत्वेनाध्यवस्यति ॥१०॥ स्वपराध्यवसायेन देहेष्वविदितात्मनाम् । वर्तते विभ्रमः पुंसां पुत्रभार्यादिगोचरः ॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org