________________
परिशिष्ट १ समाधिशतक (१) प्रासंगिक
(अनुष्टुप ) नमोऽस्तु पूज्यपादाय समाधिस्वामिने त्रिधा । राजचंद्राय याचेऽहं समाधिबोधिसाधनम् ॥१॥ कलिकालानले दग्धान् जीवांस्त्रातुं समुद्यतः । राजचन्द्रसुधासिंधुर्नमस्तस्मै स्मराम्यहम् ॥२॥ नमोऽस्तु पूज्यपादाय समाधिस्वामिने सदा । समाधितंत्र कर्तारं नमामि समताधरम् ॥३॥ (२) संस्कृत - टीकाकारका मंगलाचरण (वसंततिलका)
सिद्धं जिनेन्द्र मलमप्रतिमप्रबोधं
निर्वाणमार्गममलं विबुधेन्द्रवन्द्यम् । संसारसागरसमुत्तरणप्रपोतं
वक्ष्ये समाधिशतकं प्रणिपत्य वीरम् ॥४॥ (३) ग्रन्थ- प्रारंभ
( श्लोक : ) येनात्माऽबुद्ध्यतात्मैव परत्वेनैव चापरम् । अक्षयानन्तबोधाय तस्मै सिद्धात्मने नमः ॥ १ ॥
(वंशस्य छंदः)
जयन्ति यस्यावदतोऽपि भारतीविभूतयस्तीर्थकृतोऽप्यनीहितुः । शिवाय धात्रे सुगताय विष्णवे जिनाय तस्मै सकलात्मने नमः ||२||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org