SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ પરિશિષ્ટ-૧ 304 यस्य सस्पन्दमाभाति निःस्पन्देन समं जगत् । अप्रज्ञमक्रियाभोगं स शमं याति नेतरः ॥६७॥ शरीरकञ्चुकेनात्मा संवृतो ज्ञानविग्रहः । नात्मानं बुद्ध्यते तस्माद् भ्रमत्यतिचिरं भवे ॥६८॥ प्रविशद्गलतां व्यूहे देहेऽणूनां समाकृती । स्थितिभ्रान्त्या प्रपद्यन्ते तमात्मानमबुद्धयः ॥६९।। गौरः स्थूलः कृशो वाऽहमित्यङ्गेनाविशेषयन् । आत्मानं धारयेन्नित्यं केवलज्ञप्तिविग्रहम् ॥७॥ मुक्तिरेकान्तिको तस्य चित्ते यस्याचला धृतिः । तस्य नैकान्तिकी मुक्तिर्यस्य नास्त्यचला धृतिः ।।७१।। जनेभ्यो वाक ततः स्पन्दो मनसश्चित्तविभ्रमाः। भवन्ति तस्मात्संसर्ग जनर्योगी ततस्त्यजेत् ॥७२॥ ग्रामोऽरण्य मिति द्वेधा निवासोऽनात्मदर्शिनाम् । दृष्टात्मनां निवासस्तु विविक्तात्मैव निश्चलः ॥७३॥ देहान्तरगतेबीज देहेऽस्मिन्नात्मभावना । बीजं विदेहनिष्पत्तरात्मन्येवात्मभावना ॥७४।। नयत्यात्मानमात्मैव जन्मनिर्वाणमेव वा । गुरुरात्माऽऽत्मनस्तस्मान्नान्योऽस्ति परमार्थतः ॥७॥ दृढात्मबुद्धिहादावुत्पश्यन्नाशमात्मनः । मित्रादिभिर्वियोगं च बिभेति मरणाद् भृशम् ॥७६॥ आत्मन्येवात्मधीरन्यां शरीरगतिमात्मनः । मन्यते निर्भयं त्यक्त्वा वस्त्रं वस्त्रान्तरग्रहम् ।।७७॥ ૨૦ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.005240
Book TitleGranthyugal
Original Sutra AuthorN/A
AuthorBramhachari
PublisherShrimad Rajchandra Ashram
Publication Year1987
Total Pages372
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy