SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ જૈન કોસ્મોલોજી .................... परिशिष्ट-१ (श्री भगवती सूत्र/शतक-१८/उद्देशो-७) (६) आद्यसंहननाश्चैषु स्वाराद्धोज्ज्वल संयमाः । भव्या स्वल्पभवा एवायान्ति यान्ति च नृष्वमी ॥६४०|| कर्मभूमिसमुत्पन्ना, मनुष्योऽपि शुभाशयाः । सम्यग्दृशः शुक्ललेश्या, जायन्तेऽनुत्तरेष्विह ॥६४१॥ (श्री क्षेत्रलोकप्रकाश सर्ग-२६) गई तदाहुः - "केरिसिया णं भंते । मणुस्सी उक्कोसकालाठिइयं आउयकम्मं बंधति ? गोयमा ! कम्मभूमिया वा..." इत्यादि प्रज्ञापना-त्रयोविंशतितमे पदे । मानुषी सप्तमनरकयोग्यामायुर्न बध्नाति अनुत्तरसुरायुस्तु बध्नातीत्येतद्वृत्तौ ।। (प्रज्ञापना सूत्र/२३मो पद...) (७) जीवाः सर्वार्थसिद्धे तूद्भवन्त्येकभवोद्भवाः । च्युत्वा भाविनि भवे, सिद्धयन्ति नियमादितः ॥६४२॥ (श्री क्षेत्रलोकप्रकाश/सर्ग-२७) । उक्तं च - सव्वट्ठाओ नियमा एगंमि भवंमि सिज्झए जीवो । विजयाइ विमाणेहिं य संखिज्जभवा उ बोद्धव्वा ॥६४३।। ॐ चतुर्विंशति भवान्नतिक्रामन्तीति तु वृद्धवादः ।। IF तथा चतुर्वेषु विमानेषु, द्विरूत्पन्ना हि जन्तवः । अनन्तरभवेऽवश्य, प्रयान्ति परमं पदम् ॥६४४।। (श्री क्षेत्रलोकप्रकाश/सर्ग-२७) us तथोक्तं च जीवाजीवाभिगमवृत्तौ – “विजयादिचतुर्पु वारद्वयं सर्वार्थसिद्धमहाविमान एकवारं गमणसंभवः ततः उर्ध्वं मनुष्यभवासादनेन मुक्तिप्राप्ते..."रिति... । (श्री जीवाजीवाभिगम सूत्र वृत्ति) श्री योगशास्त्रवृत्तौ तु विजयादिषु चतुर्खनुत्तरविमानेषु "द्विचरमा" इत्युक्तं ज्ञेयम् । (श्री योगशास्त्र वृत्ति...) Is तत्त्वार्थभाष्येऽपि विजयादिष्वनुत्तरेषु विमानेषु देवा द्विचरमा भवन्ति, द्विचरमा इति ततश्च्युताः परं द्विर्जनित्वा सिद्ध्यन्तीति...। (श्री तत्वार्थभाष्य) us एतट्टिकापि - द्विचरमत्त्वं स्पष्टयति - ततो विजयादिभ्यश्च्युताः परमुत्कर्षेण द्विर्जनित्वा मनुष्येषु सिद्धिमधिगच्छन्ति, विजयादिविमानच्च्युत मनुष्यः पुनरपि विजयादिषु देवस्ततश्च्युतो मनुष्यः स सिद्धयतीति... || (श्री तत्वार्थ भाष्य वृत्ति...) ॥ पञ्चम-"शतक"नामा कर्मग्रंथे - तिरिनरयतिजोआणं नरभवजुअस्स चउपल्लतेसटुं । एतद्गाथासूत्रवृत्त्यनुसारेण तु विजयादिविमानेषु द्विर्गतोऽपि संसारे कतिचिद्भवान् भ्रमति नरकतिर्यग्गतियोग्यमपि कर्म बध्नातीति दृश्यते, तदत्र तत्वं तु केवलिगम्यम् ।। (श्री "शतक"नामा-पञ्चमकर्मग्रंथ...) (८) सर्वार्थदेवाः संख्येया असंख्येयाश्चतुर्पु ते । एतेष्वेकक्षणोत्पत्तिच्युतिसंख्याऽच्युतादिवत् ॥६४५॥ (श्री क्षेत्रलोकप्रकाश/सर्ग-२७) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005233
Book TitleJain Cosmology Sarvagna Kathit Vishva Vyavastha
Original Sutra AuthorN/A
AuthorCharitraratnavijay
PublisherJingun Aradhak Trust
Publication Year2012
Total Pages530
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy