SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ : २५९ सिरिमाणतुंगसूरी २०, वीसइमो एगवीस सिरिवीरो २१ । बावीस जयदेवो २२, देवाणंदो य तेवीसो २३ ॥ ८ ॥ २० - तत्पट्टे श्रीमानतुंगसूरिः । २१ - तत्पट्टे श्रीवीरसूरिः । २२- तत्पट्टे श्रीजयदेवसूरिः । २३ - तत्पट्टे श्रीदेवानंदसूरिः । व्याख्या—२० सिरिमाणतुंगत्ति, श्रीमानदेवसूरिपट्टे विंशतितमः श्रीमानतुंगसूरिः । येन भक्तामरस्तवनं कृत्वा बाण - मयूरपंडितविद्या चमत्कृतोऽपि क्षितिपतिः प्रतिबोधितः । भयहरस्तवन करणेन च नागराजो वशीकृतः । भक्ति भरेत्यादि स्तवनानि च कृतानि । श्रीप्रभावकचरित्रे प्रथमं मानतुंग चरित्रमुक्तं, पश्चाच्च देवसूरिशिष्य श्रीप्रद्योतनसूरिशिष्य श्रीमान देवसूरिप्रबंधा उक्ताः, परं तत्र नाऽऽशंका यतस्तत्राऽन्येऽपि प्रबंधा व्यस्ततयोक्ता दृश्यन्ते । २१ एगवीसत्ति, श्रीमानतुंगसूरिपट्टे एकविंशतितमः श्रीदेवानंदसूरिः । स च श्रीवीरात् सप्ततिसप्तशत ७७० वर्षे, विक्रमतः त्रिशती ३०० वर्षे नागपुरे श्रीनमिप्रतिष्ठाकृत् । यदुक्तम्नागपुरे नमिभवन - प्रतिष्ठया महितपाणिसौभाग्यः । अभवद् वीराचार्य-स्त्रिभिः शतैः साधिकै राज्ञः ॥ १ ॥ २२ बावीसत्ति, श्रीवीरसूरिपट्टे द्वाविंशतितमः श्रीजयदेवसूरिः ॥ छ ॥ २३ देवाणंदोत्ति, श्रीजयदेवसूरिपट्टे त्रयोविंशतितमः श्रीदेवानंदसूरिः । अत्रांतरे श्रीवीरात् पंचचत्वारिंशदधिकाष्टशत ८ ४५ वर्षात्क्रिमे वल्लभभङ्गः । द्वयशीत्यधिकाष्टशत ८८२ वर्षातिक्रमे चैत्यस्थितिः । षडशीत्यधिकाष्टशत ८८६ वर्षातिक्रमे ब्रह्मद्वीपिकाः ॥ ८ ॥ चवीसो सिरिक्किम २४, नरसिंहो पंचवीस २५ छवीसो । सूरिसमुह २६ सत्ता - चीसो सिरिमाण देवगुरू २७ ॥ ९ ॥ २४ - तत्पट्टे श्रीविक्रमसूरिः । २५- तत्पट्टे श्रीनरसिंहसूरिः । २६ - तत्पठ्ठे श्रीसमुद्रसूरिः । २७ तत्पट्टे श्रीमान देवसूरिः । व्याख्या 1 – २४ चउवीसोत्ति - श्रीदेवानंदसूरिपट्टे चतुर्विंशतितमः श्रीविक्रमभूरिः । २१ नरसिंहोत्ति, श्रीविक्रमसूरिपट्टे पंचविंशतितमः श्रीनरसिंह सूरिः । यतः - Jain Education International नरसिंहसूरिरासीदतोऽखिलग्रंथपारगो येन । यक्षो नरसिंहपुरे, मांसरर्ति त्याजितः स्वगिरा ॥ १ ॥ २६ छबीसोत्ति, श्रीनरसिंह सुरिपट्टे षड्विंशतितमः श्रीसमुद्रसूरिः । For Private & Personal Use Only www.jainelibrary.org
SR No.005201
Book TitleTapagaccha Pattavali
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherVijaynitisurishwarji Jain Library
Publication Year1940
Total Pages354
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy