________________
--
५४ाक्षी] : १५५ :
श्री यसरि विंशतिधटीप्रमाणसुवर्णव्ययेन रैमयः श्रीऋषभदेवप्रासादः कारितः। केचिच्च तत्र षट्पंचाशत्सुवर्णधटीव्ययेनेंद्रमालायां (लां यो ) परिहितवानिति वदन्ति ।
तथा धरित्र्यां केनचित्साधर्मिकेण ब्रह्मचारिवेषदानावसरे महर्धिकत्वात् पृथ्वीधरस्यापि तद्वेषः प्राभृतीकृतः, स च तमेव वेषमादाय ततःप्रभृति द्वात्रिंशद्वर्षीयोऽपि ३२ ब्रह्मचार्यभूत् ॥
तस्य च पुत्र सा० झांझगनाम्ना एक एवासीत् । येन श्रीशत्रुभयोजयंतगिर्योः शिखरे द्वादशयोजनप्रमाणः सुवर्णरूप्यमय एक एव ध्वनः समारोपितः। कर्पूरकृते राजासारंगदेवः करयोजनं कारितः ।
येन च मंडपाचले जीर्णटंकानां द्विसप्तत्या क्वचित् षट्त्रिंशता सहस्रैर्गुरूणां प्रवेशोत्सवश्चक्रे ।
देवपत्तने च शिष्याभ्यर्थनया मंत्रमयस्तुतिविधानतो येषां रत्नाकरस्तरंगै रत्नढौकनं चकार । तथा तत्रैव ये स्वथ्यानप्रभावात्प्रत्यक्षीभूतनवीनोत्पन्न कपर्दियक्षेण वजस्वामिमाहात्म्याच्छ→जया. निष्काशितं जीणकपर्दिराजं मिथ्यात्वमुत्सर्पयतं प्रतिबोध्य श्रीजैन बिंबाधिष्ठायकं व्यधुरिति । एकदा काभिश्चिद् दुष्टस्त्रीभिः साधूनां विहारिता कामणोपेता वटका भूपीठे यैस्त्याजिताः संतः प्रभाते पाषाणा अभवन् । तदनु चाभिमंत्र्याऽर्पितपट्टकासनास्ताः स्तंभिताः सत्यः कृपया मुक्ता इति । तथा विद्यापुरे पक्षांतरीयतथाविधस्त्रीभिर्गुरूणां व्याख्यानरसे मात्सर्यात् स्वरभंगाय कण्ठे केशगुच्छके कृते यैर्विज्ञातस्वरूपास्ताः प्राग्वत् स्तंभिताः संत्योऽतःपरं भवद्गणे न वयमुपद्रोष्याम इति वाग्दानपुरःसरं संघाग्रहान्मुक्ता इति ।
__उज्जयिन्यां च योगिभयात् साध्वस्थिते गुरव आगता योगिना साधवः प्रोक्ताः “अत्रागतैः स्थिरैः स्थेयं ? " साधुभिरु के “ स्थिताः स्मः किं करिष्यसि ?" तेन साधूनां दन्ता दर्शिताः, साधुभिस्तु कफोणिर्दर्शिता । साधुभिर्गत्वा गुरूणां विज्ञप्तं । तेन शालायामुन्दरवन्दं विकुर्वितं । साधवो भीत। गुरुभिर्घटमुखं वस्त्रेणाऽऽछाद्य तथा जप्तं यथा राटिं कुर्वन् स योगी आगत्य पादयोलग्नः ॥
क्वचनपुरे निश्यभिमंत्रितद्वारदानं, एकदा अनभिमंत्रितद्वारदाने शाकिनीभिः पट्टिरुत्पाटिता स्तंभितास्ता वाग्दाने च मुक्ताः ।
यैरेकदा सर्पदंशे रात्रौ विषणांतरांतरामूर्छामुपगतैरुपायविधुरं संघ प्रत्यूचे " प्राचीनप्रतोल्यां कस्यचित्पुंसो मस्तके काष्ठभारिकामध्ये विषापहारिणी लता समेष्यति, सा च घृष्य दंशे देया "
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org