SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ૬) આ સૂત્રના બત્રીશ (વા તેત્રીશ) આલાપકનું નવ વિભાગમાં વર્ગીકરણ इह द्वात्रिंशदालापकाः, त्रयस्त्रिंशदित्यन्ये 'वियदृछउमाणमित्यनेन सह । इह च आद्यालापकद्वयेन स्तोतव्यसम्पदुक्ता, यतोऽर्हतामेव भगवतां स्तोतव्ये समयं निवन्धनं। तदन्यैस्तु त्रिभिः स्तोतव्यसम्पद एव प्रधाना साधारणासाधारणरूपा हेतुसम्पत् , यत आदिकरणशीला एव तीर्थकरत्वेन स्वयंसम्बोधिताश्चैते भवन्ति । तदपरैस्तु चतुर्भिः स्तोतव्यम्पद एवासाधारणरूपा हेतुसम्पत् , पुरुषोत्तमानामेव सिंहपुण्डरीकगन्धहस्तिधर्मभाक्त्वेन तद्भावोपपत्तेः। तदन्यैस्तु पञ्चभिः स्तोतव्यसम्पद एव सामान्येनोपयोगसम्पत् , लोकोत्तमत्वलोकनायकत्वलोकहितत्वलोकपदीपत्वलोकप्रद्योतकरत्वानां परार्थत्वात् । तदपरैस्तु पञ्चभिरस्या एवोपयोगसम्पदो हेतुसम्पत् , अभयदानचक्षुर्दानमार्गदानशरणदानबोधिदानैः परार्थसिद्धेः । तदन्यैस्तु पञ्चभिः स्तोतव्यसम्पद एव विशेषेणोपयोगसम्पत् , धर्मदत्वधर्मदेशकत्वधर्मनायकत्वधर्मसारथित्वधर्मवरचातुरन्तचक्रवर्तित्वेभ्यस्तद्विशेषोपयोगात् । तदन्यद्वयेन तु स्तोतव्यसम्पद एव सकारणा स्वरूपसम्पत् , अप्रतिहतवरज्ञानदर्शनधरा व्यावृत्तछद्मानश्चार्हन्तो भगवन्त इति हेतोः। तदपरैश्चतुर्भिरात्मतुल्यपरफळकर्तृत्वसम्पत् जिनजापकत्वतीर्णतारकत्वबुद्धबोधकत्वमुक्तमोचकत्वानामेवंप्रकारत्वात् । ___ तदन्यैस्तु त्रिभिः प्रधानगुणापारक्षयप्रधानफलाप्त्यभयसम्पदुक्ता, सर्वज्ञसर्वदर्शिनामेव शिवाचलादिस्थानसम्माप्तौ जितभयत्वोपपत्ते ॥२४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005151
Book TitleLalit Vistara
Original Sutra AuthorHaribhadrasuri
AuthorBhagvandas Mehta
PublisherKanchanben Bhagwandas Mehta Mumbai
Publication Year
Total Pages764
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy