________________
लेखा-४५२ । उच्चैरभ्रंलिहशिखरभृत्तोरणैरंचितश्रीः
प्रासादोऽयं धरणीवलये नंदतादाशंशांकम् ॥ ३१॥ श्रीयुगादिजिनाधीशप्रासादेन पवित्रितः । ग्रामोऽपि वर्द्धतामेष सुखसंपत्तिमिश्विरम् ॥ ३२ ॥
॥ इति प्रशस्तिः ।।
(४५२) अयेह श्रीगुर्जरमंडले वडनगरवास्तव्यनागरज्ञातीयलघुशाखीयभद्रसिआणागोत्रमुख्यगां । लाडिका । भा० पत्नीसुतेन गां । बाटुआख्येन कुंवरजी । धर्मदास । वीरदासाख्यसुतत्रययु. तेन संवत् १६४९ वर्षे मार्गसुदि १३ सोमवासरे स्वभुजार्जितबहुद्रव्यव्ययेन कावीतीर्थ स्वपुण्यार्थं सर्वजिन्नामा श्रीऋषभदेवप्रासादः कारितः प्रतिष्ठितश्च तपागच्छेशभट्टारकपुरंदरश्रीहीरविजयमूरिपट्टमहोदयकारिभिः श्रीविजयसेनसूरिभिश्चिरं नन्दतात् श्रीरस्तु छ।
(४५३) ॥ द० । पातिसाहश्री ७ अकबरजलालदीनविजयराज्ये गरासिया राठोडश्री ५ प्रतापसिंघश्रीखंबायतवास्तव्यलघुनागरज्ञातीयगां बाहुआसुतकुंवरजीकेन श्रीधर्मनाथप्रासादकृतः उपरिसेठपीतांबरवीरा तथा से० शिवजी बोघा गजधर विश्वकर्माज्ञाती. यश्रीराजनगरवास्तव्यसूत्रधार सता सुत वीरपाल शलाट सूत्रमाण गोरा । देवजी : संवत् १६५४ वर्षे श्रावणवदि ९ वारशनी स्वभुजार्जितबहुद्रव्यव्ययेन श्रीकावीतीर्थे स्वपुण्यार्थ रत्नतिलका नाना बावनजिनालयसहितः प्रासादः कारितः । लि । पं ज्ञानेन । श्रीः।
२६७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org