SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ लेखाक-४५१ । २९३ तर्फव्याकरणादिशास्त्रनिविडाभ्यासन गर्वोद्धरा ये कुर्चालसरस्वतीतिविरुदं स्वस्मिन्वहंतेऽनिशम् । पाचोयुक्तिभिरेव यैः स्फुटतरं सर्वेऽपि ते वादिनः साहिश्रीमदकबरस्य पुरतो वादे जिताः स्वोजसा ॥ १२ ॥ पां चरणसरोरुहमकरंदास्वादलालसः सततम् । संघो जयतु चतुर्धा भूयांसि महांसि कुर्वाणः ॥ १३ ॥ इतश्च-- गूर्जरमंडलमंडनमभयं वहनगरमस्ति तत्रासीत् । नागरलघुशाखायां भद्रसिआणाभिधे गोत्रे ॥ १४ ॥ गाधिदेपाल इति प्रसिद्धनामा सुधर्मकर्मरतः । तत्सुत अलुआह्वानस्तस्य सुतो लाडिकाभिधया ॥ १५ ॥ पत्नीति धर्मपत्नी शीलालंकारधारिणी तस्य । तत्कुक्षिभुवौ बाहुक-गंगाधरनामको तनयौ ॥ १६ ॥ तत्रापि वाहुआख्यः सुभाग्यसौभाग्यदानयुतः । धैर्योदार्यसमेतो जातो व्यवहारिंगणमुख्यः ।। १७ ॥ आद्यस्य पोपटीति च हीरादेवी द्वितीयका भार्या । 'ताभ्यां वराननाभ्यां सुतास्वयः सुषुविरे सुगुणाः ॥ १८ ॥ आद्यसुतः कुंवरजीति नामा सुपात्रदानेषु रतो विशेषात् । मार्गप्रवृत्तेर्गुणसंग्रहाच पितुर्यशो वर्द्धयति प्रकामं ॥ १९ ॥ जातौ परस्यामथ धर्मदासः सुवीरदासश्च मुतौ वरेण्यौ । अथान्यदार्थार्जनहेतवेऽसौ स्थानान्तरान्वेषणमानसोऽभूत् ॥२०॥ श्रीस्तंभनाधीशजिनेशपाईप्रसादसंपादितसर्वसौख्यम् । त्रंबावतीति प्रति नामधेयं श्रीस्तंभतीर्थ नगरं प्रसिद्धम् ॥ २१ ॥ उ६५. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy