SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ प्राचीन जैनलेख संग्रहे श्रीमन्नाभिनरेन्द्रसूनुरमरश्रेणीसमासेवितो देयान्निर्निभभक्तियुक्तमनसां मुख्यानि सौख्यानि सः ॥ १ ॥ श्रीवर्द्धमानस्य बभूव पूर्व पूर्वादिकृत्पट्टधरः सुधर्मा । गतोऽपि सिद्धिं तनुते जनानां सहायकं यः प्रतिधर्ममार्गम् ॥ २ ॥ ततोsपि पट्टे नवमे बभूवुः श्रीसूरयः सुस्थितनामधेयाः । येभ्यः क्रियाज्ञानगुणाकरेभ्यो गच्छोऽभवत् कोटिकनामतोऽयम् । ३ ततो ये वज्रशाखायां कुले चान्द्रेऽत्र सूरयः । तेषां प्रभावं प्रत्येकं वक्तुं शक्नोति कः सुधीः ॥ ४ ॥ पट्टे युगाब्धमिते क्रमेणाभवन् जगचंद्रगणाधिपास्ते । येषां सदाचाम्लतपोविधानात् तपा इति माग बिरुदं तदाभूत् ||५|| तेषां वंशे क्रमतस्तपःक्रियाज्ञान शुद्धिपरिकलितः । रसवाणमिते पट्टे संजातः सुविहितोत्तंसः ॥ ६ ॥ आनन्दविमलसूरिः श्रुतोऽपि चित्ते करोति मुद्रमतुलाम् । कुमतांधकूपमग्नं स्वबलाज्जगदुद्धृतं येन ॥ ७ ॥ २९२ तत्पट्टे महिमभरख्याताः श्री विजयदानसूरीशाः । येभ्यः समस्तविधिना प्रससार तपागणः सम्यक् ॥ ८ ॥ तेषां पट्टे प्रकटाः शांतरसापूर्णहृदयका साराः । श्रीहीर विजयगुरवः प्रभवोऽभुवंस्तपागच्छे ॥ ९ ॥ साहिश्रीमदकब्बरस्य हृदयोर्व्यां यः पुरा रोपितः संसिक्तोऽपि चयैर्वचोऽमृतरसैः कारुण्यकल्पद्रुमः । दत्तेऽद्यापि फलान्यमारिपटहोद्घोषादिकानि स्फुटं श्री शत्रुंजयतीर्थमुक्त करता सन्मानमुख्यानि च ॥ १० ॥ तेषां पट्टे प्रकटन हंसाः श्रीविजयसेनसूरिवराः । संप्रति जयन्ति वाचकबुधमुनिगणग्रन्थपरिकरिताः ॥ ११ ॥ Jain Education International ३६४ For Private & Personal Use Only N www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy