SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ २९० प्राचीनजैनलेखसंग्रहे द्वौ द्वास्थौ द्वारदेशस्थौ राजतो भूमिधामनि । मूर्तिमन्तौ चमरेन्द्रधरणेन्द्राविव स्थितौ ॥ ५२ ।। चत्वारश्चमरधरा राजन्ते यत्र भूगृहे । प्रभुपार्थे समायाता धर्मास्त्यागादयः किमु ।। ५३ ।। भाति भूमिगृहे मूलगर्भागारेऽतिसुन्दरे । मूर्तिरादिप्रभोः सप्तत्रिंशदंगुलसंमिता ॥ ५४ ॥ श्रीषीरस्य त्रयस्त्रिंशदगुला मूर्तिरुत्तमा । श्रीशान्तेश्च सप्तविंशत्यगुला भाति भूगृहे ॥ ५५ ॥ यत्रोद्धता धराधाम्नि शोभन्ते दश दन्तिनः । युगपजिनसेवायै दिशामीशा इवाययुः ॥ ५६ ॥ यत्र भूमिगृहे भान्ति स्पष्टमष्ट मृगारयः । भक्तिभाजामष्टकर्मगजान् हन्तुमिवोत्सुकाः ॥ ५७॥ श्रीस्तम्भतीर्थपूर्भूमिभामिनीभालभूषणम् । . चैत्यं चिन्तामणेविक्ष्य विस्मयः कस्य नाभवत् ॥ ५८ ॥ एतौ नितांतमतनु तनुतः प्रकाशं यावत् स्वयं सुमनसां पथि पुष्पदन्तौ । श्रीस्तम्भतीर्थधरणीरमणीललामं तावचिरं जयति चैत्यमिदं मनोज्ञम् ।। ५९ ॥ श्रीलाभविजयपण्डिततिलकैः समशोधि बुद्धिधनधुः । लिखिना च कीर्तिविजयाभिधेन गुरुवान्धवेन मुदा ॥ ६ ॥ वणिनीव गुणाकीर्णा सदलङकृतिवृत्तिभार । एषा प्रशस्तिरुत्कीर्णा श्रीधरेण सुशिल्पिना ॥ ६१ ॥ श्रीकमलविजयकोविदशिशुना विबुधेन हेमविजयेन । रचिता प्रशस्तिरेषा कनीव सदलकृतिर्जयति ॥ ६२ ॥ ૩૬ ૨ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy