SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ लेखाङ्क:-४५०। उत्तम्भा द्वादश स्तम्भा भान्ति यत्राईतो गृहे। प्रभूपास्त्यै किमऽभ्येयुः स्तम्भरूपभृतोंशवः ॥ ४१ ॥ यत्र प्रदत्तदृक्शैत्ये चैत्ये द्वाराणि भान्ति षट् । पण्णां प्राणभृतां रक्षार्थिनां मार्गा इवागतेः ।। ४२ ॥ शोभन्ते देवकुलिकाः सप्त चैत्येऽत्र शोभनाः । सप्तर्षीणां प्रभुपास्त्यै सद्विमाना इवेयुषाम् ॥ ४३ ॥ द्वौ द्वारपालौ यत्रोच्चैः शोभेते जिनवेश्मनि । सौधर्मेशानयोः पार्थसेवार्थ किमितौ पती ।। ४४ ॥ पञ्चविंशतिरुत्तङ्गा भान्ति मङ्गलमूत्तयः । प्रभुपार्थे स्थिताः पञ्चव्रतानां भावाना इव ।। ४ ।। भृशं भूमिगृहं भाति यत्र चैत्ये महत्तरम् । किं चैत्यश्रीदिदृक्षार्थमितं भवनमासुरम् ॥ ४६ ॥ यत्र भूमिगृहे भाति सौपानी पञ्चविंशतिः । मार्गालिरिव दुरितक्रियातिक्रान्तिहेतवे ॥ ४७ ॥ संमुखो भाति सोपानोत्तारद्वारिद्विपाननः । अन्तःप्रविशतां विघ्नविध्वसाय किमीयवान् ॥ ४८ ॥ यद्भाति दशहस्तोचं चतुरस्रं महीगृहम् । दशदिक्सम्पदा स्वैरोपवेशायेव मण्डपः ॥ ४९ ॥ षड्विंशतिर्विबुधन्दवितीर्णहर्षा राजन्ति देवकुलिका इह भूमिधान्नि । आद्यद्वितीयदिवनाथरवीन्दुदेव्यः __ श्रीवाग्युताः प्रभुनमस्कृतये किमेताः ॥ ५० ॥ द्वाराणि सुप्रपश्चानि पञ्च भान्तीह भूगृहे । जिघत्सवोहोहरिणान् धर्मसिंहमुखा इव ॥५१॥ 37 ૩૬૧ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy