SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ २८८ प्राचीन जैन लेखसंग्रहे श्री पार्श्वनाथस्य च वर्द्धमान प्रभोः प्रतिष्ठां जगतामभीष्टाम् । घनैर्धनैः कारयतः स्म बन्धू तौ बार्द्धिपाथोन्धिकलामितेऽद्धे १६४४ ॥ ३३ ॥ श्री विजय सेनसरिर्निर्ममे निमेश्वरः । प्रतिष्ठां श्रीकैरवाकरकौमुदीम् ॥ ३४ ॥ चिन्तामणेरिवात्यर्थं चिन्तितार्थविधायिनः । नामा पार्श्वनाथस्य श्रीचिन्तामणिरित्यभूव ॥ ३५ ॥ अङ्गुलैरे कचत्वारिंशता चिन्तामणेः प्रभोः । संमिता शोभते मूर्त्तिरेषा शेषाहिसेविता ॥ ३६ ॥ सदैव विध्यापयितुं प्रचण्डभयप्रदीपानिव सप्तसप्पन | योऽवस्थितः सप्त फणान् दधानो विभाति चिन्तामणिपार्श्वनाथः ॥ ३७ ॥ ढोकेषु सप्तस्वपि सुप्रकाशं किं दीपदीपा युगपद्विधातुम् । रेजुः फणाः सप्त यदीयमूर्ध्नि मणित्विषा ध्वस्ततमः समूहाः ॥ ३८ ॥ सहोदराभ्यां सुकृतादराभ्या माभ्यामिदं दत्तबहुप्रमोदम् । व्यधायि चिन्तामणिपार्श्वचैत्य मपत्यमुवघरभित्सभायाः ॥ ३९ ॥ निकामं कामितं कामं दत्ते कल्पलतेव यत् चैत्यं कामदनामैतत् सुचिरं श्रियमश्नुताम् ॥ ४० ॥ Jain Education International 360 For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy