________________
लेखा:-१३०॥
२१३ भीमत्केल्ह (*)णमंडलपतितनयायां नौकशालिन्यां । तत्पप्रणयिन्यां शृंगारपदोपपददेव्यां ॥३॥ एतद्ाममाभववैभवभृति तत्पदत्तसाचिव्ये।। सकलकलाकुलकुशले गृहमेधिनि नागडे सचिवे ॥ ४ ॥ दिः (द्विः) स्मरशरदिनकरमितवर्षे शुचिशस्यसंपदुत्कर्षे । दुंदुभिनामनि धामनि(*)विटपपल्लवितधर्मधियां ॥ ५ ॥ एतत्पद्कचतुष्किकाविरचितश्रीमंडपोद्धारतः
पुण्यं पण्यमगण्यमाकलयति श्रीवीरगोष्ठीजनः । मन्ये किंतु चतुष्किकाद्वयमिदं दत्ताभिमुख्यस्थिति
स्थेयस्तत्कलिमोहभूषयुगली जित्वात्पत्रद्वयीं ॥६॥ इंदुः कुंदसितैः करैः पुलकयत्याकाशः(*)वल्ली मृदु__ विद्भानुरसौ तनोति परितोप्याशाः प्रकाशोज्ज्वलाः तावद्धार्मिकधर्मकर्मरभसप्रारब्धकल्याणिक
स्तोत्राधुच्छवगीतवाद्यविधिभिः जीयात्रिकं सर्वतः ॥७॥ राज्ञा शृंगारदेव्यात्र वाटिका भूमिरद्भुता। दत्ता श्रीवीरपूजार्थ शास्वतः श्रेयसः श्रिये ॥ ८॥ साक्षिता दा(*)णिकः साक्षात्मेक्षा दाक्ष्यबृहस्पतिः । अत्राभून्नीरडो वा सौत्रधारेसु कम्मसु ॥९॥ छ । पूज्यपरमाराध्यतमश्रीतिलकप्रभसूरीणां कृतिरियं ॥ छ । संवत १२५५ आसोयसुदि ७ बुधवारे सकलगोष्ठिकलोकः त्रिकोदारं स्वश्रेयसे कारितवानिति ॥ छ ।
૩૩૫
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org