________________
२४०
प्राचीनजैनलेखसंग्रह (24) रे कृत्वा संस्थापनां श्रीप्रथमजिनपतेर्येन सौवैर्यशोभि
श्चित्रं चक्रे जगत्यां जिनकुशलगुरुस्तत्पदेऽसावशोभि॥२७॥ बाल्येपि यत्र गणनायकलक्ष्मिकांताकेलिविलोक्य सरसा
हृदि शारदापि । सौभाग्य(25) तः सरभसं विललास सोयं जातस्ततो मुनिपतिर्जिन
पद्मसूरिः ॥ २८॥ दृष्टापदृष्टसुविशिष्टनिजान्यशास्त्रव्याख्यानसम्यगवधाननिधानसिद्धिः। जज्ञे ततोऽस्तकलि
कालजनासमानज्ञानक्रियः(26) ब्धिजिनलब्धियुगप्रधानः॥२९॥ तस्यासने विजयते सम
सूरिवर्यः सम्यगहगंगिगणरंजकचारुचर्यः । श्रीजैनशासनविकासनभूरिधामा कामापनोदनमना जिनचन्द्रनामा।३०।
तत्कोपदेश(27) वशतः प्रभुपार्श्वनाथप्रासादमुत्तममचीकरत - - - ।
श्रमिद्विहारपुरवस्थितिवच्छराजः श्रीसिद्धये सुमतिसोदरदेवराजः ॥ ३१॥ महेन गुरुणा चात्र बच्छराजः
सबांधवः । प्रतिष्ठां कारयामास मंडनान्वय(28) मंडनः ॥ ३२ श्रीजिनचंद्रमुरिन्द्रा येषां संयमदायकाः ।
शास्त्रष्वध्यापकास्तु श्रीजिनलब्धियतीश्वराः॥३३॥ कर्तारोऽत्र प्रतिष्ठायास्ते उपाध्यायपुङ्गवाः । श्रीमंतो भुवनहि
ताभिधाना गुरुशासनात् ॥ ३४ ॥ न(29) यनचंद्रपयोनिधिभूमिते व्रजति विक्रमभूभृदनेहसि । बहुल
षष्टिदिने शुचिमासगे महमचीकरदेनमयं सुधीः ॥ ३५ श्रीपार्श्वनाथजिननाथसनाथमध्यः प्रासाद एष कलसध्वजमण्डितो
૩૧૨
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org