________________
लेखाङ्कः-३७७ ।
असूत सा पूर्वदिगेव सूर्य मुक्तामणि वंशविशेषयष्टिः ।
वज्रां (*) कुरं रोहणभूमिकेव
नापाभिधानं सुत राजरत्नं ॥ २८ ॥ गुणैरनेकैः सुकृतैरनेकै
लेभे प्रसिद्धिर्भुवि तेन विष्वक् । तदर्थिनोऽन्येपि समर्ज्जयंतु
गु (*) णान् सपुण्यान्विधुवद्विशुद्धान् ॥ २९ ॥ तस्यासी नवलादे वनिता वनितारसाररूपगुणा । शीलालंकृतिरम्या गम्या नापाइयेनैव ॥ ३० ॥ आसाभिधा (*) नो मृताभिधश्व सुधर्मसिंहोऽप्युदयाभिधोऽपि ।
सादूलनामेति च संति पंच
तयोस्तनूजा इव पांडुकुंत्योः ॥ ३१ ॥ आसाभिधानस्य बभूव भार्या
सरू (*)पदेवीति तयोः सुतौ द्वौ । तयोरभूदादिमवीरदासो
लघुश्चिरं जीवितजीवराजः ॥ ३२ ॥ वृद्धेतरस्यामृतसंज्ञितस्य
मृगेक्षणा मौलिकदेऽभिधाना ।
सु ( * ) तावभूतामनयोस्तथा द्वौ
मनोहराख्योऽपरवर्द्धमानः ॥ ३३ ॥
सदा मुदे धारलदेऽभिधाना सुधर्मसिंहस्य सम्मिणीति । कुटुंबिनी सा उछरंगदेवी
Jain Education International
300
For Private & Personal Use Only
२२९
www.jainelibrary.org