________________
२१६
प्राचीन जैन लेख संग्रहे
स्तिरस्कृतारिप्रतिमल्लदेवः ॥ ९ ॥ तस्यैौरसस्समजनिष्ट बलिष्ठवाहः प्रत्यर्थितापनकदर्थन पर्व्व राहुः (*) । श्रीमल्लदेव नृपपट्टसहस्ररश्मिः
श्रीमानभूदुदयसिंहनृपः सरश्मिः ॥ १०॥
कमधजकुलदीपः कांतिकुल्या नदीप
स्तनुजितमधुदीपः सौ (*) म्यता कौमुदीपः । नृपतिरुदयसिंहः स्वपतापास्तसिंहः
सितरदमुचुकुंदः सर्व्वनीत्या मुकुंदः ॥ ११ ॥ राज्ञां समेषामयमेव वृद्धो
वाच्यस्तद (*)न्देरर्थ वृद्धराजः ।
यस्येति शाहिर्विरुदं स्प दया
दकब्बरो बब्बर शहंसः ॥ १२ ॥ तत्पट्टहेम्नः कषपट्टशोभा
मवीभरत्संप्रति सूरसिंहः ।
यो (*) माषपेषं द्विषतः पिपेष
निर्मूलकाषं कपितार्त्तितांतिः ॥ १३ ॥
राज्यश्रियां भाजनमिद्धवागा
Jain Education International
प्रतापमंदीकृतचण्डधामा ।
सपत्ननागावलिनाश सिंहः (*)
पृथ्वीपती राजति सूरसिंहः ॥ १४ ॥ प्रतापतो विक्रम सूर्य
सिंहौ गतौ व्योभवनं च भीतौ ।
अन्वर्थतो नाम जगाम सूर्य -- सिंहेति यः सर्वजन ( * ) प्रसिद्धं ॥ १५ ॥
૨૯૮
For Private & Personal Use Only
www.jainelibrary.org