________________
प्राचीन जैनलेख संग्रहे
1
॥५॥
श्री बलभद्राचार्य विदग्धनृपपूजितं समभ्यर्च्य | अ ( आ ) चंद्रार्क यावद्दत्तं भवते मया (*) [ श्रीहस्ति ] कुंडिकायां चैत्यगृहं जनमनोहरं भक्त्या । श्रीमदबलभद्रगुरोर्यद्विहितं श्रीविदग्धेन || ६ || तस्मिन्लो (लो) कान् समाहूय नानादेशसमागतान' | आचंद्रार्कस्थितिं यावच्छासनं दत्तमक्षयम् ॥ ७॥ [रू]पक एको देवो वहतामिह विंशतेः वहानाम् । धम्म (*) क्रयविक्रये च तथा ॥८॥
१८२
संभृतगंच्या देयस्तथा वत्याश्च रूपकः श्रेष्ठः । घाणे घटे च कर्षो देयः सर्व्वेण परिपाटया ॥ ९ ॥ श्री [भ] लोकदत्ता पत्राणां चोल्लिका त्रयोदशिका | पेल्लक पेल्लकमेतद्युतक [रैः ] शासने देवम् ॥ १० ॥ देयं पलास (श) पाटक मर्यादावार्त्तिक *) - प्रत्यरघ[ ं] धान्याढकं तु गोधूमयवपूर्णम् ॥ ११ ॥ पेड्डा च पंचपल्लिका धर्मस्य विधोपकस्तथा भारे । शासनमेतत्पु विदग्धराजेन संदत्तम् ।। १२ ।। [क]सकांस[य] कुंकुम [पुर] मांजिष्ठादिसर्वभांडस्थ । [द]श दश पलानि भारे देयानि विक (*) - - ॥ १३ ॥ आदानादेतस्माद्भागद्वयमर्हतः कृतं गुरुणा ।
U ****
शेषस्तृतीयभागो विद्याधनमात्मनो विहितः ॥ १४ ॥ राज्ञा तत्पुत्रपौत्रैश्च गोष्ट्या पुरजनेन च । गुरुदेवधनं रक्ष्यं नोपे[क्ष्यं हितम ( मी/सुभि: ] ॥ १५ ॥ दत्ते दाने फलं दानात्पालिते पालनात्फलम् | [ भक्षितो ]पेक्षिते पापं गुरुदे ( * )[वधने ]धिकम् ॥ १६ ॥
Jain Education International
૨૫૪
For Private & Personal Use Only
www.jainelibrary.org