________________
लेखाङ्कः-१३२ ।
लूणिगस्य तनुजो जगज्जयी तेजसिंह इति तेजसां निधिः । यत्प्रतापदवपावकश्चिरं वैरिवर्गविपदं नइति स्म ॥ २१ ॥
कराग्रजाग्र[त्]करवा (*) लदंडखंडिकृताशेषविरोधिवर्गः ।
पृथ्यां (यां) प्रसिद्धस्तिहुगाकनामा वीरावतंसः स चिरायुरस्तु ॥ २२ ॥ श्रीमलुंभकनामा समन्वितस्तेजसिंह - तिगु ( हु ) णाभ्याम् । अबु (र्बु) दगिरीश (*) राज्यं न्यायनि [धिः पालयामास ॥ २३ ॥ ] [ मंडोउर] पुरवासी सुगुरुश्रीधर्मसूरिपदभक्तः । सर्वज्ञशासनरतः स जयति जेल्हा भिवः श्रेष्टी (ष्ठी ॥ २४ ॥ तत्तनयः सुनयो [s] भूत् (द्) चे(*)[ल्हा]कः सकलभू[तलख्यातः।] तत्पुत्रः सुचरित्रः पुण्यनिधिः पारसः साधुः ॥ २५ ॥ सोही - देगा - देसल - कुलधरनाम्ना तदंगजा जाताः । चत्वारः कुलमंदिर सुदृढ स्तंभाभिरामास्ते ( ) || २६ ॥ श्रीदेसलः सुकृत पेसल वित्तकोटीचंच चतुर्दशजगज्जनितावदातः ।
शत्रुंजयप्रमुख विश्रुतसप्ततीर्थे
यात्राrतुर्दश चकार महामहेन ||२७|| देमति - माई (*) - नाम्नी साधु श्रीसलस्य भार्ये द्वे । निर्मलशीलगुणाढ्ये दयाक्षमे जैनधर्मस्य ॥ २८ ॥ देमतिकुक्षिप्रभवा गोसल - गयपाल - भीम - नामानः । माईकु क्षेतौ मोह (*) ण - गोहाभिधौ पुत्रौ ॥ २९ ॥ जिनशासनकमलरविः साधुः श्रीगोसलो विशदकीर्तिः । गुणरत्न रोहणधरा गुणदेवी मियतमा तस्य || ३० ॥
Jain Education International
we
१८८
११५७
For Private & Personal Use Only
www.jainelibrary.org