________________
प्राचीनजैनलेखसंग्रह विनाधिव्याधिहंत्री या मातेव प्रणतांगिपु । श्रीपुंजराजतनया श्रीमाता भवतां श्रि(*)ये ॥ १२ ॥ अचलेशविशिष्टानलतटिनीमंदाकिनीविमलसलिला[नि] पुण्यानि यस्य शृंने(गे) जयंवि(ति)विविधानि तीर्थानि ॥ १३ ॥
॥ अथ राजावली॥ वैरिवर्गदलने गततंद्रश्चाहुवामकुलकैरवचंद्रः।। यो नदूलन(*गरस्य नरेश आसराज इति वीरवरोऽभूत् ॥१४॥ प्रवलवैरिदवानलवारिदः समरसिंह इति प्रथितस्ततः । महणसिंहभटः सुभटाग्रणीः पृथुयशा अजनिष्ट तदंगजः ॥ १५ ॥ प्रतापमल्लस्तदनु प्रता(*पी बभूव भूपालसदस्सु मान्यः । वीरावतंसोऽजनि वीजडो ऽस्य मरुस्थलीमंडलभूमिमता ॥ १६ ॥
आसन् त्रयस्तत्तनया नयाख्या
मूर्ताः पुमा इव भांगभोजः । आयो धरित्रीपतिरक्षपाल:
ख्यातः क्षितो(तौ) लूणिग(*)नामधेय ॥१७॥ न्यायमार्गशिखरीमधुमासः कालवक्ष(त्क)वलयन्नरिव्रजम् । मंडलीकपहवी(वी)मपालहा(य)ल्लुढ इत्यभिधया धियां निधिः॥१८॥ विपक्षनारीनयनांबुपूरैश्चकार यः कीर्ति(*)लतां सपत्राम् । बभूव भूमिपतिलब्धमानो लुभाभिधानो जगदेकवीरः ॥ १९ ॥ संहृत्य शत्रून् प्रवलनुबलेन श्री अबु()दं प्राप्य नगाधिराजम् । भुक्त्वा स भूमंडल राज्यमुच्चैः स्व.(*)कलोकाधिपतिर्वभूव ॥२०॥
१ 'वशिष्ठा' -स्यात् । २ 'भोगभाजः' स्यात् । ३ 'प्रबलान् ' स्यात् ।
૧૮૮
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org