________________
प्राचीनजैनलेखसंग्रहे सोऽयं पुनर्दाशरथिः पृथिव्या___ मव्याहतौजाः स्फुटमुजगाम । मारीचवैरादिव योऽधुनापि
[मृगव्यमव्यग्रमतिः करोति ॥ ३७ ॥ साम(*)तसिंहसमितिक्षितिविक्षतौजः--
श्रीगर्जरक्षितिपरक्षणदक्षिणासिः । प्रह्लादनस्तदनुजो दनुजोत्तमारिचारित्रमत्र पुनरुज्ज्वलयांचकार ॥ ३८ ॥ देवी सरोजासनसंभवा किं - कामप्रदा किं सुरसौरभेयी । प्रह्लादनाकारधरा(*)धराया
____ मायातवत्येप न निश्चयो मे ॥ ३९ ॥ धारावर्षसुतोऽयं जयति श्रीसोमसिंहदेवो यः । पितृतः शौर्य विद्यां पितृव्यकादान भयतो जगृहे ॥४०॥ मुक्त्वा विप्रकरानरातिनिकरान्निजित्य तत्किंचन
प्रापत्संप्रति सोम(* सिंहनृपतिः सोमप्रकाशं यशः । येनोर्वीतलमुज्ज्वलं रचयताप्युत्ताम्यतामीjया
सर्वेशामिह विद्विषां नहि मुखान्मालिन्यमुन्मूलितं ॥४१॥ वसुदेवस्येव सुतः श्रीकृष्णः कृष्णराजदेवोऽस्य ।
मात्राधिकप्रतापो यशोद(*)यासंश्रितो जयति ॥ ४२ ॥ इतश्व
अन्वयेन विनयेन विद्यया
विक्रमेण सुकृतक्रमेण च ।
૧ પર
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org