SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-४३-६ । नो धत्ते परलोकतो भयमहो हंसापलापे कृती । उच्चैरास्तिकचक्रवालमुकुटश्रीवस्तुपालस्फुटं भेजे नास्तिकतामयं तव यशःपूरः कुतस्त्या (*) मिति ॥ १ ॥ कोपाटोपपरैः परैश्चलचमूरङ्गतुरङ्गक्षत क्षोणीक्षोदवशादशोपि जलधिः श्रीस्तम्भतीर्थे पुरे । स्वेदाम्भस्तटिनीघटाघटनया श्रीवस्तुपाल स्फुर तेजस्तिग्मगभस्ति तप्ततनुभिस्तैरेव सम्पूरितः ॥ २ ॥ दिग्यात्रोत्सव वीरवीरधवलक्षोणीधवाध्यासितं प्राज्यं राज्यरथस्य भारमभितः स्कंधे दधलीलया । भाति भ्रातरि दक्षिणे समगुणे श्रीवस्तुपालः कथं न श्लाघ्यः स्वयमश्वराजतनुजः कामं सवामा स्थितिः ॥३॥ लावण्यांग इति द्युतिव्यतिकरैः सत्याभिधानोऽभवद् भ्राता यस्य निशानिशांत विकस चन्द्रप्रकाशाननः । शंके शंकरकोपसंभ्रमभरादासीदनंगः स्मरः साक्षादंगमयोऽयमित्यपहृतः स्वर्गंगनाभिर्लघु ॥ ४ ॥ रक्तः सद्गतिभावभाजि चरणे श्रीमल्लदेवो परो यद्भ्राता परमेष्ठिवाहनतया प्राप्तः प्रतिष्ठां पराम् । खेलनिर्मलमान से न समयं कापि श्रयन् पंकिलं विश्वे राजति राजहंस इव यः संशुद्धपक्षद्वयः ॥ ५ ॥ सोऽयं तस्य सुधाहरस्य कवितानिष्ठः कनिष्ठः कृती बंधुबंधुरबुद्धिबोधमधुरः श्रीवस्तुपालाभिधः । ज्ञानांभोरुहकोटरे भ्रमरतां सारंगसाम्यं यशः सोमे सौरितुलां च यस्य महिमक्षीरोदधौ स्वं दधौ ॥६॥ (*) इंदुर्विदुरपां सुरेश्वरसरिडिंडोरपिंड: पतिभसां विद्रुमकंदलः किल विभुः श्रीवत्सलक्ष्मानभः । Jain Education International ६७ ૧૩૯ For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy