SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-४२–५ । रस्वती मूर्तिदेव कुलिकाचतुष्टयजिनयुग लाम्वावलोकनाशाम्बमद्युम्न्नशिखरेषु श्रीनेमिनाथदेवालंकृत देवकुलिका चतुष्टयतुरगाधिरूढस्वपितामहमहं० श्रीसोम निजपितृठ० श्री आशाराजमूर्तिद्वितयचारुतोरणत्रयश्रीनेमिनाथदेव आत्मीय ( * ) पूर्वजाग्रजानुजपुत्रादिमूर्तिसमन्वितसुखोद्घाटन कस्तम्भ श्री अष्टापद महातीर्थमभृतिअनेक कीर्तनपरम्पराविराजिते श्रीनेमिनाथदेवाधिदेवविभूषितश्रीमदुज्जयन्तमहातीर्थे आत्मनस्तथा स्वधर्मचारिण्याः प्राग्वाटजातीयठ० श्री - कान्हडपुत्र्याः उ०राणुकुक्षिसंभूताया महं० श्रीललितादेव्याः पुण्याभि (*) वृद्धये श्रीनागेन्द्रगच्छे भट्टारकश्रीमहेन्द्रसूरि संताने शिष्यश्री शान्तिसूरिशिष्य श्री आणन्दसूरिश्रीअमरसूरिपदे भट्टारक श्रीहरि - भद्रसूरिपट्टालंकरणप्रभुश्रीविजयसेनसूरिप्रतिष्ठित श्री अजितनाथदेवादिविंशतितीर्थकरालंकृतोऽयमभिनवः समण्डपः श्रीसंमेतमहातीथवतारप्रासादः कारितः । स श्रीजिनाधिपतिधर्मधुराधुरीणः श्लाघास्पदं कथमिवास्तु न वस्तुपालः । श्रीशारदासुकृतकीर्तिन यादिवेण्याः पुण्यः परिस्फुरति जङ्गमसङ्गमो यः ॥ १ ॥ विभुताविक्रमविद्याविदग्धतावित्तवितरणविवेकैः । यः सप्तभिर्विकारैः कलितोऽपि बभार न विकारम् ||२|| यस्य भूः किमसावस्तु वस्तुपालसुतः सदा । नाव सावाप्येतौ धर्मकर्मकृतौ कृतौ ॥ ३ ॥ कस्यापि कविता नास्ति विनास्य हृदयामुखम् | वास्तव्यं वस्तुपालस्य पश्यामस्तद्वयं च यम् ॥ ४ ॥ Jain Education International ૧૩૫ ६३ For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy