________________
१२
प्राचीन जैनलेख संग्रहै
( ४२-५ )
ॐ नमः सर्वज्ञाय ||
ये दुज्जयन्तं
'जयाभूमजाकल्याणा |
स्वस्ति श्रीविक्रमसंवत् १२८८ वर्षे फागुण शुदि १० बुधे श्रीमदणहिलपुरवा (*) स्तव्य प्राग्वाटान्वयप्रसूतठ० श्रीचण्डपालात्मज ठ० श्रीचण्डप्रसादाङ्गज ठ० श्रीसोमतनुजठ ० श्री आशाराजनन्दनस्य ४० श्रीकुमारदेवीकुक्षिसंभूतस्य उ० श्रीलुणिग महं० श्रीमालदेवयोरनुजस्य महं० श्री तेजःपालाग्रजन्मनो महामात्य श्रीवस्तुपालस्यात्मजे महं० श्रीललितादेवीकुक्षिस रोवर राजहंसाय (*)माने महं० श्री जयन्तसिंहे [सं० ७९ वर्षपूर्व स्तम्भतीर्थे मुद्राव्यापारान्व्यापृण्वति सति सं. ७७ वर्षे शत्रुंजयोज्जयन्तप्रभृतिमहातीर्थयात्रोत्सवप्रसादाविर्भूतश्रीमदेवाधिदेवप्रसादासादितसंघाधिपत्येन चौलुक्यकुलनभस्तलप्रकाशनैकमार्त्तण्ड महाराजाधिराजश्री लवणप्रसाददेवसुतमहाराजश्री वीरध (*) वलदेवप्रीतिप्रतिपन्न राज्य सर्वैश्वर्येण श्रीशारदाप्रतिपन्नापत्येन महामात्यश्रीवस्तुपालेन तथानुजेन सं० ७६ वर्षपूर्वं गुर्जरमण्डले धवलककप्रमुखनगरेषु मुद्राव्यापारं व्यापृण्वता महं० श्रीतेजःपालेन च श्री शत्रुंजयार्बुदाचलप्रभृतिमहातीर्थेषु श्रीमदणहिलपुरभृगुपुरस्त ( * ) म्भनकपुर स्तम्भतीर्थदर्भवतीधवलककममुखनगरेषु तथान्यसमस्तस्थानेष्वपि कोटिशोsभिनधर्मस्थानानि प्रभूतजीर्णोद्धाराथ कारिताः । तथा सचिवेश्वरश्रीवस्तुपालेनेह स्वयं निर्मापितश्रीशत्रुंजयमहातीर्थावतार श्रीमदादितीर्थंकर श्री ऋषभदेव स्तम्भनकपुरावतार श्रीपार्श्वनाथदेव सत्यपुरावतार श्री (*) महावीरदेव प्रशस्तिसहितकश्मीरावतार श्रीस
Jain Education International
૧૩૪
For Private & Personal Use Only
www.jainelibrary.org