________________
५८
प्राचीन जैनलेखसंग्रहे
( ४१-४ )
ॐ नमः श्री नेमिनाथदेवाय ||
तीर्थेशाः प्रणतेन्द्रसंहतिशिरः कोटीरकोटिस्फुटतेजोजालजलप्रवाहलहरीमक्षालितांत्रिद्वयः । ते वः केवलमूर्तयः कवलितारिष्टां विशिष्टाममी तामष्टापदशैलमौलिमणयो विश्राणयन्तु श्रियम् ॥ १ ॥
स्वस्ति श्रीविक्रसंवत् १२८८ वर्षे फागुण (*) शुदि १० बुधे श्रीमदणहिलपुरवास्तव्य प्राग्वाटान्वयप्रसूतट श्रीचण्डपालात्मज श्रीचण्डप्रसादाङ्गन ठ० श्री सोमतनुज ठ० श्रीआशाराजनन्दनस्य श्रीकुमारदेवीकुक्षिसंभूतस्य ठ० श्रीलुणिग महं० श्रीमालदेवयोरनुजस्य ठ० महं० श्रीतेजःपालाग्रजन्मनो महामात्यश्रीवस्तुपालस्यात्मजे (*) महं० श्रीललितादेवीकुक्षि सरोवरराजहंसायमाने महं० श्रीजयन्तासिंहे सं० ७९ वर्षे पूर्वं स्तम्भतीर्थवेलाकुलमुद्राव्यापारं व्यापृण्वति सति सं०७७ वर्षे श्रीशत्रुंज योज्ज यंतप्रभृतिमहातीर्थयात्रोत्सवप्रभावाविर्भूतश्रीमद्देवाधिदेवप्रसादासादितसंघाधिपत्येन चौलुक्यकुलनभस्तलप्रकाशनैक (*) मार्तण्डमहाराजाधिराजश्री लवणप्रसाददेवसुत महाराजश्रीवरिधवलदेवप्रीतिप्रतिपन्नराज्यसर्वैश्वर्येण श्रीशारदाप्रतिपन्नापत्येन महामात्य श्रीवस्तुपालेन तथानुजेन सं० ७६ वर्षे पूर्व गुर्जर मण्डले धवलककप्रमुखनगरेषु मुद्राव्यापारं व्यापृण्वता महं० श्रीतेजःपालेन च श्री (# ) शत्रुंजयार्बुदाचलमहातीर्थेषु श्रीमदणहिलपुरभृगुपुरस्तम्भनकपुर स्तम्भतीर्थदर्भवतीधव लक्ककप्रमुखनगरेषु तथान्य समस्त स्थानेष्वपि कोटिशो धर्मस्थानानि प्रभूतजीर्णोद्धाराश्च कारिताः । तथा सचिवेश्वरश्रीवस्तुपालनेह स्वयं निर्मापितशत्रु
ठ०
Jain Education International
०
130
For Private & Personal Use Only
www.jainelibrary.org