SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ ५२ प्राचीनजैनलेखसंग्रहे विजयसेनसूरिप्रतिष्ठित श्रीऋषभदेवप्रमुखचतुर्विंशतितीर्थंकरालंकृ. तोऽयमभिनवः समण्ड(*)पः श्रीसमेतमहातीर्थावतारमधानप्रासादः कारितः। चेतः किं कलिकालसालसमहो कि मोहनो हस्यते तृष्णे कृष्णमुखासि किं कथय किं विघ्नौघमोघो भवान् । ब्रुमः किंतु सखे न खेलति किमप्यस्माकमुज्जम्भितं सैन्यं यत्किल वस्तुपालकृतिना धर्मस्य संवर्धितम् ॥ १॥ यं विधुं बन्धवः सिद्धमर्थिनः शत्र(*)............ । .........."ण"पश्यन्ति वर्ण्यतां किमयं मया ॥२॥ वैरं विभूतिभारत्योः प्रभुत्वप्रणिपातयोः। तेजस्विताप्रशमयोः शमितं येन मन्त्रिणा ॥ ३ ॥ दीपः स्फूर्जति सज्जकज्जलमलस्नेहं मुहुः संहर निन्दुर्मण्डलवृत्तखण्डनपरः प्रवेष्टि मित्रोदयम् । शूरः क्रूरतरः परस्य सहते नेजो न तेजस्विन स्तत्केन प्रतिमं ब्र(*)वीमि सचिवं श्रीवस्तुपालाभिधम्॥४॥ आयाताः कति नैव यान्ति कतिनो यास्यन्ति नो वा कति स्थाने स्थाननिवासिनो भवपथे पाथीभवन्तो जनाः। अस्मिन्विस्मयनीयबुद्धिजलधिविध्वस्य दस्यून करे कुर्वन्पुण्यनिधिं धिनोति वसुधां श्रीवस्तुपालः परम् ॥ ५॥ दधेऽस्य वीरधवलक्षितिपस्य राज्य___ भारे धुरंधरधुरा(*)........ श्रीतेजपालसचिवे दधति स्वबन्धुभारोद्धृतावविधुरैकधुरीणभावम् ॥ ६॥ ૧૨૪ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy