SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-३८-१। पीयूषपूरस्य च वस्तुपाल मंत्रीशितुथायमियान् विभेदः । एकः पुनर्जीवयति प्रमीतं प्रमीयमाणं तु भुवि द्वितीयः ॥ १ ॥ श्रीदश्रीदयितेश्वरप्रभृतयः संतु कचित् तेऽपि ये प्रीणंति प्रभविष्णवोऽपि विभवै किंचनं कंचन । सोऽयं सिंचति कांचनैः प्रतिदिनं दारिद्रयदावानल प्रम्लानां पृथिवीं नवीनजलदः श्रीवस्तुपालः (*)पुनः॥२॥ भ्रातः पातकिनां किमत्र कथया दुर्मत्रिणामेतया येषां चेतसि नास्ति किंचिदपरं लोकोपकारं विना । नन्वस्यैव गुणान्गृणीहि गणशः श्रीवस्तुपालस्य यस्तविश्वोपकृतितं चरति यत्कर्णेन चीर्ण पुरा ॥३॥ भित्त्वा भानुं भोजराजे प्रयाते श्रीमुंजेऽपि स्वर्गसाम्राज्यभाजि । एकः संप्रत्यर्थिनां वस्तुपाल स्तिष्ठत्यश्रु(* स्यंदनिष्कंदनाय ॥ ४ ॥ चौलुक्यक्षितिपालमौलिसचिव ! त्वत्कीर्तिकोलाहल खैलोक्येऽपि विलोक्यमानपुलकानंदाश्रुभिः श्रूयते । किं चैषा कलिदूषितापि भवता प्रासादवापीप्रपा___ कूपारामसरोवरप्रभृतिभिर्धात्री पवित्रीकृता ॥ ५॥ स श्रीतेजःपालः सचिवश्चिरकालमस्तु तेजस्वी। येन वयं निश्चिताश्चिंतामणिने(*)व नंदामः ॥६॥ लवणप्रसादपुत्रश्रीकरणे लवणसिंहजनकोऽसौ । मंत्रित्वमत्र कुरुतां कल्पशतं कल्पतरुकल्पः ॥ ७ ॥ ૧૨ ૧ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy