________________
प्राचीनजैनलेखसंग्रहे यद्ध्यानं [ भ ] विपापपंकदलने गंगांवुधारायते श्रीसिद्धार्थनरेंद्रनंदनजिनः सोऽस्तु श्रिये सर्वदा ॥५॥
अथ पावली। श्रीवर्द्धमानजिनराजपदक्रमेण
श्रीआर्यरक्षितमुनीश्वरमरिराजाः । विद्यापगाजलधयो विधिपक्षगच्छ
संस्थापका यतिवरा गुरवो बभूवुः ॥ ६ ॥ तच्चारुपट्टकमला[ज]लराजहंसा
श्चारित्रमंजुकमलाश्रवणावतंसाः। गच्छाधिपा बुधवरा जयसिंहसूरि
नामानि उ-]घदमलोरुगुणावदाताः ॥ ७ ॥ श्रीधर्मघोषगुरवो वरकीर्तिभाजः
सूरीश्वरास्तदनु पूज्यमहेंद्रसिंहाः। आसंस्ततः सकलसूरिशिरोवतंसाः
सिंहप्रभाभिधसुसाधुगुणप्रसिद्धाः ॥ ८॥ तेभ्यः क्रमेण गुरवो जिनसिंहमूरि
गोत्रा बभूवुरथ पुज्यतमा गणेशाः। देवेंद्रसिंहगुरवोऽखिललोकमान्या
धर्मप्रभा मुनिवरा विधिपक्षनाथाः ॥ ९ ॥ पुज्याश्च सिंहतिलकास्तदनु प्रभूत___ भाग्या महेंद्रविभवो गुरवो वभूवुः। चक्रेश्वरीभगवतीविहितप्रसादाः
श्रीमेरुतुंगगुरवो नरदेववंद्याः ॥१०॥
१०८ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org