SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-२१॥ ३१ प्रागुक्तवत्सरे रम्ये माधवार्जुनपक्षके। रोहिणीभतृतीयायां बुधवासरसंयुजि ॥ २३ ॥ श्रीशांतिनाथमुख्यानां जिनानां चतुरुत्तरा। द्विशती प्रतिमा हृद्या भारिताश्च प्रतिष्ठिताः ॥ २४ ॥ (युग्मम् ।) पुनर्निजबहुव्यसफलीकरणकृते । श्रीनव्यनगरे ऽकारि प्रासादः शैलसंनिभः ॥ २५ ॥ द्वासप्ततिजिनौकोभिर्वेष्टितश्च चतुर्मुखैः।। कैलासपतोत्तुंगैरष्टाभिः शोभितो ऽभितः ॥ २६॥ (युग्मम् ।) साहिश्रीपद्मसिंहेनाऽकारि शत्रुजयोपरि।। उत्तुंगतोरणः श्रीमान् प्रासादः शिखरोन्नतः ।। २७ ॥ यं दृष्ट्वा भविकाः सर्वे चिंतयंति स्वचेतसि । उच्चभूतः किमेपोऽद्रिद्रष्यते ऽभ्रंलिहो यतः ॥२८॥ येन श्रीतीर्थराजोऽयं राजते सावतंसकः। प्रतिमाः स्थापितास्तत्र श्रीश्रेयांसमुखाऽर्हताम् ॥ २९ ॥ तथा च-संवत् १६७६ वर्षे फाल्गुन सित द्वितीयायां तिथौ दैत्यगुवासरे रेवतीनक्षत्रे श्रीमतो नव्यनगरात् साहिश्रीपद्मसीकेन श्रीभरतचक्रवर्तिनिर्मिमतसंघसदृशं महासंघं कृत्वा श्रीअंचलगणाधीश्वरभट्टारकपुरंदरयुगप्रधानपूज्यराजश्री ५ श्रीकल्याणसागरसूरीश्वरैः सार्द्ध श्रीविमलगिरितीर्थवरे समेत्य स्वयंकारितश्रीशजयगिरिशिरःप्रासादे समहोत्सवं श्रीश्रेयांसप्रमुखजिनेश्वराणां संति विवानि स्थापितानि । सद्भिः पूज्यमानानि चिरं नंदतु । यावद्विभाकरनिशाकरभूधरार्यरत्नाकरध्रुवधराः किल जाग्रतीह । १०३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy