SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ३० प्राचीन जैनलेखसंग्रहे श्रीसिद्धांत समुद्राख्यसूरयो भूरिकीर्त्तयः । भावसागरसूरींद्रास्ततोऽभूवन् गणाधिपाः ॥ ११ ॥ श्रीमद्गुणनिधानाख्यसूरयस्ततपदेऽभवन् । युगप्रधानाः श्रीमंतः सूरिश्रीधर्ममूर्त्तयः ॥ १२ ॥ तत्पट्टोदयशैलाग्रप्रोद्यत्तरणिसंनिभाः । जयंति सूरिराज: श्रीयुजः कल्याणसागराः ॥ १३ ॥ श्रीनव्यनगरे वास्युपकेशज्ञातिभूषणः । इभ्यः श्रीहरपाला आसील्लालणगोत्रकः ॥ १४ ॥ हरीयाख्यो ऽथ तत्पुत्रः सिंहनामा तदंगजः । उदेसीत्यथ तत्पुत्रः पर्वतास्ततो ऽभवत् ॥ १५ ॥ वच्छूनामा ऽथ तत्पत्नी चाभूद्वाच्छलदेविका । तत्कुक्षिमानसे हंसतुल्यो थामरसंज्ञकः ॥ १६ ॥ लिंगदेवीत तत्पत्नी तदौरस्यास्त्रयो वराः । जयंति श्रीवर्धमानचांप सीपद्मसिंहकाः || १७ | अतः परं विशेषतः साहिवर्धमानसाहिपद्मसिंहयोर्वर्णनम् । गांभीर्येण समुद्राभौ दानेन धनदोपमौ । श्रद्धालु गुणसंपूर्णो वोधिना श्रेणिको मौ ॥ १८ ॥ प्राप्तश्रीयामभूपालसमाज बहुलादरौ । मंत्रिश्रीवर्द्धमानश्रीपद्मसिंह सहोदरौ ॥ १९ ॥ महेला वर्द्धमानस्य बन्नादेवीति विश्रुता । तदंगजावुभौ ख्यातौ वीराख्यविजपाळकौ ॥ २० ॥ वर्णिनी पद्मसिंहस्य रत्नगर्भा सुजाणदे । श्री पालकुंरपालाहरणमल्लास्तदंगजाः ॥ २१ ॥ एवं स्वतंत्रयुक्ताभ्यामनल्पोत्सव पूर्व्वकम् । साहिश्रीवर्द्धमान श्रीपद्मसभ्यां प्रथादरात् ॥ २२ ॥ Jain Education International ૧૦૨ For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy