SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-२१॥ (२१) स्वस्ति श्रीवत्सभापि न विष्णुश्चतुराननः । न ब्रह्मा यो वृषांकोपि न रुद्रः स जिनः श्रिये ॥ १ ॥ संवत् १६७५ वर्षे शाके १५४१ प्रवर्तमाने समग्रदेशशृंगारहाल्लारतिलकोपमम् । अनेकेभ्य गृहाकीर्ण नवीनपुरमुत्तमम् ॥ २ ॥ अभ्रंलिहविहारामध्वजांशुकहतातपम् । रूप्यस्वर्णमाणिव्याप्तचतुष्पथविराजितम् ॥ ३ ॥ (युग्मम् ।) तत्र राजा प्र]शास्ति श्रीजसवंताभिधो नृपः । यामश्रीशत्रुशल्याबकुलांबरनभोमणिः ॥ ४ ॥ यत्प्रतापाग्निसंतापसंतप्त इव तापनः । निर्माति जलधौ नित्यमुन्मज्जननिमजने ॥ ५ ॥ (युग्मम् ।) बभूवुः श्रीमहावीरपट्टानुक्रमभूषणाः । श्रीअंचलगणाधीशा आर्यरक्षितसूरयः ॥ ६॥ तत्पट्टपंकजादित्याः सूरिश्रीजयसिंहकाः । श्रीधर्मघोषसूरींद्रा महेंद्रासिंहसूरयः ॥ ७ ॥ श्रीसिंहप्रभसूरीशाः सूरयो ऽजितसिंहकाः। श्रीमद्देवेन्द्रसूरीशाः श्रीधर्मप्रभसूरयः ॥ ८ ॥ श्रीसिंहतिलकाहाश्च श्रीम[हेन्द्रप्रभाभिधाः । श्रीमंतो मेरुतुंगाख्या बभूवुः सूरयस्ततः ॥ ९ ॥ समग्रगुणसंपूर्णाः सूरिश्रीजयकीर्तयः तत्पदेऽथ सुसाधुश्रीजयकेसरिसूरयः ॥ १० ॥ ૧૦૧ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy