________________
लेखाङ्कः-१३। एभिर्विश्वविसारिभिर्युतिभरैरत्यर्थसंसुत्रितोद्
द्योतो दिक्ष्वखिलासु निर्जरपतिः स्वर्लोकपालैरिव । श्रीशत्रुजयशैलमौलिमुकुटं चैत्यैश्चतुर्भिर्युतः प्रासादो ऽङ्गिमनोविनोदकमलाचैत्यं चिरं नंदतु ।। ६५॥ वस्ताभिधस्य वरसूत्रधरस्य शिल्पं
चैत्यं चिरादिदमुदीक्ष्य निरीक्षणीयम् । शिष्यत्वमिच्छति कलाकलितोऽपि विश्व
कर्माऽस्य शिल्पिपटले भवितुं प्रसिद्धः ॥६६॥ सदाचाराब्धीनां कमलविजयाह्वानसुधियां
पदद्वंद्वांभोजभ्रमरसदृशो हेमविजयः। अलंकारैराठ्यां स्त्रियमिव शुभां यां विहितवान्
प्रशस्तिः शस्तैि]षा जगति चिरकालं विजयताम् ॥६७॥ इति सौवर्णिकसाह श्रीतेजःपालोद्धृतविमलाचल
मण्डनश्रीआदीशमूलप्रासाद्मशस्तिः ।। बुधसहजसागराणां विनेयजयसागरोऽलिखदर्णैः शिल्पिभ्यामुत्कीर्णा माधवनानाभिधानाभ्याम् ॥ ६८ ॥
(एपिग्राफिआ इण्डिका-२।५०-५९ )
(१३) ॐ ॥ स्वस्ति श्रीसंवत् १६५२ वर्षे मार्गे वदि २ सोमवासरे पुष्यनक्षत्रे निष्पतिमसंवेगवैराग्यनिःस्पृहतादिगुणरंजितेन साहिश्रीअकबरनरेंद्रेण प्रतिवर्ष पाण्मासिकसकलजंतुजाताभयदानप्रपतनसवकालीनगवादिवनिवर्तनजीजिआदिकरमोचनमुंडकाभिथानकरमाचनपूर्वकश्रीशत्रुजयतीर्थसमर्पणादिपुरस्सरं प्रदत्तबहुब
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org