________________
लेखाङ्कः-१२।
द्वासप्ततिः श्रियमयंति जिनेंद्रचंद्र
विवानि देवकुलिकासु च तावतीषु । द्वासप्ततेः श्रितजनालिकलालतानां
किं कुड्मला परिमलैर्भुवनं भरंतः ॥ ५२ ।। राजते यत्र चत्वारो गवाक्षा जिनवेश्मनि । विरंचेरिव वक्त्राणि विश्वाकारणहेतवे ॥ ५३ ॥ यत्र चैत्ये विराजते चत्वारश्च तपोधनाः। अमी धर्माः किमायाताः प्रभूपास्त्यै वपुर्भूतः ॥ ५४ ॥ पंचालिकाः श्रियमयंति जिनेंद्रधाम्नि
द्वात्रिंशदिंद्ररमणीभरजैत्ररूपाः । ज्ञात्वा पतीनिह जिने किमु लक्षणक्ष्मा
राजां प्रिया निजनिजेशनिभालनोत्काः ।। ५५ ।। द्वात्रिंशदुत्तमतमानि च तोरणानि
राजति यत्र जिनधाम्नि मनोहराणि । किं तीर्थकृद्दशनलक्ष्मिमृगेक्षणानामंदोलनानि सरलानि सुखासनानि ॥ ५६ ॥ गजाश्चतुर्विंशतिरऽदितुंगा
विभांति शस्ता जिनधान्नि यत्र । देवाश्चतुर्विंशतिरीशभक्त्यै
किमागताः कुञ्जररूपभाजः ॥ ५७ ।। स्तंभाश्चतुस्सप्ततिरदिराजो
तुंगा विभांतीह जिनेंद्रचैत्ये। दिशामऽधीशैः सह सर्च इंद्राः .. किमाप्तभत्त्यै समुपेयिवांसः ॥ ५८ ॥ * ॥
८१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org